________________
द्वितीया ] जयाऽलङ्कृतः
२४१ कत्वरूपतत्कर्मकत्वयोरेकविशिष्टेऽपरान्वये एव पूर्वोपदर्शितरीत्या काष्ठोच्छेदप्रयोज्योत्पत्तिकत्वरूपकाष्ठप्रकृतिकत्वस्य भस्मनि लाभसम्भवादिति चेत्-सत्यम्। भस्म क्रियत इत्यादौ भस्मादिनिवर्त्यकर्मताया लकारेणानभिधानेऽपि तत्कर्मताया धात्वर्थे संसर्गतया भानोपगमेन तादृशकर्मोत्तरं प्रथमायाः साधुता। प्रातिपदिकार्थविशेष्यतया कर्मत्वादिविवक्षायामेव द्वितीयादिविभक्तेः साधुत्वात् । यथाऽर्यो नम इत्यादौ नमः पदार्थत्यागेऽादिकर्मत्वबोधेऽपि अादिपदात्प्रथमैव । निपातार्थे त्यागे कर्मतासम्बन्धेनैव नामार्थस्यान्वयात् । ___एवं भूतले न घट इत्यादावपि सम्बन्धस्याभावे संसर्गतया भानात् पष्ठीविषयेऽपि प्रथमा । न च धात्वर्थे नामार्थस्य साक्षादन्वयोऽव्युत्पन्न इति प्रकृतेः कर्मतायाः संसर्गतया भानं न सम्भवतीति वाच्यम् । वटो नीलो भवति, काष्ठं भस्म भवतीत्यादौ भवनादिक्रियायां नीलादेः कर्तृतासम्बन्धेन साक्षादन्वयवदत्रापि व्युत्पत्तिवैचित्र्येण कर्मत्वान्तरविशेषणतापन्नक्रियायामपरकर्मण: कर्मतासम्बन्धेन साक्षादन्वयोपगमात् । न चैवमपि कर्मत्वस्य प्रकृत्यर्थविशेष्यत्वेन विवक्षया काष्ठं भस्मराशिं क्रियत इत्यादिप्रयोगापत्तिः। कर्मत्वान्तरविशेषणतानापन्नक्रियायामेव द्वितीयया कर्मत्वं बोध्यत इतिव्युत्पत्तिकल्पने गौर्दुह्यते क्षीरमजा नीयते ग्राममित्यादौ दोहन, नयनादिक्रियायां क्षीरग्रामादिकर्मकत्वानन्वयप्रसङ्ग इति वाच्यम् । प्रकृतिविकृत्युभयकर्मकस्थले तथा व्युत्पत्तेः। यथोक्तातिप्रसङ्गवारणाय दर्शिता व्युत्पत्तिः कल्प्यते तथा कर्तत्वविशेषणतयाऽभासमानायां क्रियायां तृतीयार्थकर्तृत्वान्वय इत्यपि व्युत्पत्तिः कल्प्या। अन्यथा प्रकृत्यर्थविशेष्यतया कर्तृत्वविवक्षया काष्ठं भस्मना भवतीति प्रयोगस्य दुर्वारत्वात् । उत्पत्तिप्रयोजकनाशप्रतियोगित्वरूपविकार एव काष्ठं भस्म भवतीत्यादौ धात्वर्थः। आधेयत्वरूपं तत्कर्तृकत्वमेव सम्बन्धमर्यादया भासते। काष्ठेन भस्मना भूयत