________________
१३६
व्युत्पत्तिवादः
[ कारके
लाघवं प्रकारतावादिनाम् । न च स्वत्वप्रकारकबुद्धौ निरूपितत्वसम्बन्धावच्छिन्नप्रतियोगिताकराजाभाववत् स्वत्वमित्यपि प्रतिबन्धकम् । एवं तदभावव्याप्यवत्तानिश्चयमुद्रया निरूपितत्वसम्बन्धावच्छिन्नराजाभावव्याप्यराजनिरूपितत्वाभाववत्स्वत्वमिति तादृशाभावव्याप्यघटवत्स्वत्वम् । एवं तादृशाभावव्याप्यपटवत् स्वत्वमित्याद्यनन्तानन्तज्ञानम्प्रतिबन्धकमिति सर्वेषामभावस्य शाब्दसामग्रयां प्रवेशः । एवं राजनिरूपितस्वत्वाभावव्याप्यस्वत्वसम्बन्धेन राजाभाववान् पुरुष इति तादृशाभावव्याप्यघटवान् पटवान् इत्याद्यनन्तानन्तज्ञानं प्रतिबन्धकमित्येतेषामप्यभावः शाब्दसामग्रयां प्रवेशनीयइति द्विविधानन्तानन्तानामभावानां शाब्दसामग्रयां प्रवेश आवश्यकः प्रकारतावादिनामिति विभिन्नविषयकप्रत्यक्षप्रतिबन्धकतावच्छेदककोटौ सर्वेषामेवानन्तानन्ताभावानां प्रवेशः । स्वत्वसंसर्गकबोधे च स्वत्वसम्बन्धेन राजाभावव्याप्यराजस्वत्वाभाववान् पुरुषः एवं तादृशाभावव्याप्यघटवान् पटवानित्येकविधमेवानन्तानन्तज्ञानं प्रतिबन्धकमित्येकविधानामेवानन्तानन्ताभावानां शाब्दसामग्रयां प्रवेशः, विभिन्नविषयकप्रत्यक्षप्रतिबन्धकतावच्छेदककोटौ प्रवेशश्चेति लाघवेन प्रकारतावादिनां महद्गौरवम् । यद्यपि निरूपितत्वसम्बन्धावच्छिन्नप्रतियोगिताकराजाभावव्याप्यत्वावच्छिन्नप्रकार
ताकस्वत्वत्वावच्छिन्नविशेष्यताकनिश्चयाभावस्य स्वरूपसम्बन्धावच्छिन्न
प्रतियोगिताकराजस्वत्वाभावव्याप्यत्वावच्छिन्नप्रकारताकपुरुषत्वावच्छिन्नविशेष्यताकनिश्चयाभावस्य च प्रवेशेन सर्वेषामेवाभावानामनन्तानामनुगमसम्भवेनोभयविधानामेव भावानां शाब्दसामग्रयां प्रवेशः प्रकारतावादिमते तथापि संसर्गमतापेक्षयाऽस्य गुरुत्वम् । संसर्गतावादिनामपि स्वत्वसम्बन्ध
-
ग्यता एवं योग्यताया द्वैविध्यं ज्ञानस्य द्वैविध्यं सुतराम् । संसर्गतावादिमते तु स्वत्वसंसर्गावच्छिन्नराजाद्यभाववत्तानिश्चयरूपबाधाभावयोग्यता ज्ञानस्यैव कारणत्वेनेति एकं लाघवं किञ्च उपस्थिते कारणत्वात् । सा च प्रकारतावादिमते राजपदजन्यराजत्वावच्छिन्ना ङस्पदजन्यस्वत्वत्वावच्छिन्ना पुरुष