________________
प्रथमा ].
जयाऽलङ्कृतः
१३५
राजाभाववान् पुरुष इति निश्चयस्य व्याप्यवत्तानिश्चयमुद्रया प्रकारतावादिनां मते प्रतिबन्धकत्वेन तदभावस्यापि शाब्दसामग्रीकोटौ निवेशनीयतया गौरवम् । संसर्गतावादिनां स्वत्वसम्बन्धेन राजाभाववान् पुरुष इति बाधनिश्चयाभावनिवेशेनैवात्रापि निर्वाहादिति वाच्यम् । यतो हि व्यापकसामानाधिकरण्यं व्याप्तिः व्यापकत्वं च यस्य व्याप्यत्वं विवक्षितन्तत्समानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकधर्मवत्वन्तथा च स्वत्वसंसर्गकराजप्रकारकपुरुषत्वावच्छिन्नविशेष्यकबुद्धौ स्वरूपसम्बन्धावच्छिन्नप्रतियोगिताकराजस्वत्वाभावसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकं यत्स्वत्वसम्बन्धावच्छिन्नप्रतियोगिताकराजाभावत्वन्तद्वत्समानाधिकरणराजनिरूपितत्वाभावत्वावच्छिन्नप्रकारताकपुरुषत्वावच्छिन्नविशेष्यताकनिश्चयः प्रतिबन्धक इति तादृशनिश्चयत्वावच्छिन्नप्रतियोगिताकाभावः शाब्दसामग्रयां प्रवेशनीयः संसर्गतावादिनेति । विभिन्नविषयकप्रत्यक्षत्वावच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धकतावच्छेदककोटौ राजस्वत्वाभावत्वरूपस्वत्वघटितगुरुधर्मस्य द्विधा प्रवेश: । राजस्वत्वप्रकारकबुद्धौ तु स्वत्वसम्बन्धावच्छिन्नप्रतियोगिताकराजाभावसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकराजस्वत्वाभावत्ववत् समानाधिकरणस्वत्वसम्बन्धावच्छिन्नप्रतियोगिताकराजाभावत्वावच्छिन्नप्रकारताकपुरुषत्वावच्छिन्नविशेष्यताकनिश्चयस्य प्रतिबन्धकत्वेन तदभावस्यैव शाब्दसामग्रयां प्रवेश इति विभिन्न विषयकप्रत्यक्षप्रतिबन्धकतावच्छेदककोटौ राजाभावत्वरूपलघुधर्मस्य द्विधा भानमिति महल
ताज्ञानादिविशिष्टाकाङ्क्षाज्ञानत्वेन कारणताऽऽकाङ्क्षाज्ञानादिविशिष्टयोग्यताज्ञानत्वेन वा कारणता । एवञ्च विनिगमनाविरहात् सामग्रीघटकयावतामपि पर्यायेण कारणतावच्छेदकत्वं सिद्धयति ।
एवं स्थिते प्रकारतावादिमते योग्यताज्ञानमेव द्विविधम् । निरूपितत्वसम्बन्धावच्छिन्नराजाद्यभाववत्तानिश्चयरूपवाधाभावो योग्यतास्वरूपसंसर्गावच्छिन्नस्वत्वत्वाद्यवच्छिन्नस्वत्वाद्यभाववत्तानिश्चयरूपबाधाभावो यो