________________
१३७
प्रथमा ]
जयाऽलङ्कृतः त्त्वावच्छिन्नप्रतियोगिताकराजाभावव्याप्यत्वावच्छिन्नप्रकारताकपुरुषत्वावच्छिन्नविशेष्यताकनिश्चयाभावप्रवेशेनैवोक्तानन्तानन्ताभावानामनुगमसम्भवेन तन्मते एकविधाभावस्यैव प्रवेशः । वस्तुत एवमपि नानुगमसम्भवः । व्यापकत्वस्य व्यापकसामानाधिकरण्यरूपतया सर्वेषां पदार्थानां प्रवेशस्यावश्यकत्वेन गौरवस्य तदवस्थत्वात् । तस्माद्राजसुत्वप्रकारकशाब्दबुद्धित्वावच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धकताश्रयसामान्याभावत्वेन सर्वेषामेवाभावानां प्रवेशसम्भवादेकरूपेण सम्भवत्यनुगम इति विचारणीयम्। प्रकारतावादिमते चोक्तरीत्या द्विविधाभावस्येति लाघवानवकाशादिति वाच्यम् । यतो हि संसर्गतावादिमते निरूपितत्वसम्बन्धावच्छिन्नप्रतियोगिताकराजाभाववत्स्वत्वं प्रमेयम् । निरूपितत्वसम्बन्धेन राजाभावव्याप्यराजनिरूपितत्वाभाववत्स्वत्वं प्रमेयम् । तादृशाभावव्याप्यघटवत्स्वत्वं प्रमेयम् । एवं तादृशाभावव्याप्यपटवत्स्वत्वं प्रमेयम् । एवं राजस्वत्वाभावव्याप्यस्वत्वसम्बन्धेन राजाभाववान् पुरुषः सुन्दरः । राजस्वत्वाभावव्याप्यघटवान् पुरुषः सुन्दरः । एवन्तादृशाभावव्याप्यपटवान् पुरुषः सुन्दर इत्यादि द्विविधानन्तानन्तविभिन्नविषयकप्रत्यक्षज्ञानम्प्रति राज्ञः पुरुष एतद्वाक्यजन्यशाब्दसामग्रयाः प्रतिबन्धकत्वकल्पनमावश्यकम् । प्रकारतावादिमते च उक्तानन्तानन्तप्रत्यक्षकारणीभूतस्य विशेष्यतावच्छेदकप्रकारकज्ञानस्य निरूपितत्वसम्बन्धेन राजाभावव्याप्यराजनिरूपितत्वाभाववत् स्वत्वमित्याद्यनन्तानन्तरूपस्य राजस्वत्वाभावव्याप्यस्वत्वसम्बन्धेन राजाभाववान् पुरुष इत्याद्यनन्तानन्तरूपस्य निरूपितत्वसम्बन्धावच्छिन्नप्रतियोगिताकनिश्चयरूपबाधघटिततया राजस्वत्वाभावव्याप्यत्वावच्छिन्नप्रकारताकपुरुषत्वावच्छिन्नविशेष्यताकनिश्चयरूपबाधघ
पदजन्यपुरुषत्वावच्छिन्नेति गौरवम् । संसर्गतावादिमते तु राजपदजन्यराजत्वावच्छिन्ना पुरुषपदजन्यपुरुषत्वावच्छिन्ना चेति द्वितीयं लाघवम् । किं बहुना योग्यताज्ञानोपस्थित्याकाङ्क्षारूपकारणस्य प्रकारतावादिमते कारणतावच्छेदकभेदात् षड्विधत्वे सामग्रयाश्च तादृशकारणविशिष्टरू