________________
१३८ व्युत्पत्तिवादः
[ कारके ताशेच्छायामसत्यां चोपदर्शितविशिष्टवैशिष्टयबोधत्वप्रकारेच्छावलादुपदर्शितविशिष्टवैशिष्ट्यबोधोपपत्तये अन्यादृशविषयताया एव प्रतिबध्यतावच्छेदकत्वोपगमावश्यकत्वात् । न च स्वत्वादे: प्रकारतामतेऽपि स्वत्वादिसम्बन्धावच्छिन्नप्रतियोगिताकराजाद्यभावविशिष्टपुरुषादिवैशिष्ट्यबोधे तथाविधसामग्याः प्रतिबन्धकताधिक्येन गौरवम् । तत्संसर्गतामते तादृशसामग्यः स्वत्वादिसम्बन्धावच्छिन्नप्रतियोगिताकराजाद्यभाववत्तानिश्चयाभावघटिततया तत्सत्त्वे कारणविरहादेव तथाविधप्रत्यक्षवारणसंभवादिति
टिततया तादृशबोधाभावघटितशाब्दसामग्रीकाले निरुक्तानन्तानन्तप्रत्यक्षकारणीभूतनिरुक्ततत्तद्रूपविशेष्यतावच्छेदकप्रकारकज्ञानस्याभावात् कारणाभावादेव तादृशानन्तानन्तप्रत्यक्षानापत्त्या द्विविधतादृशानन्तानन्तप्रत्यक्षम्प्रति प्रतिबन्धकत्वकल्पनन्नावश्यकम् , किन्तु स्वत्वसम्बन्धेन राजाभावव्याप्यराजस्वत्वाभाववान् पुरुषः सुन्दर एवं तादृशाभावव्याप्यघटवान् पुरुषः सुन्दरः पटवान् पुरुषः सुन्दर इत्याद्येकविधानन्तानन्तप्रत्यक्षं प्रत्येवेति महल्लाघवमित्याहुः।
संसर्गतावादिनां च नैतत्प्रतिबन्धकत्वकल्पनमावश्यकमेतत्प्रत्यक्षकारणीभूतविशेष्यतावच्छेदकप्रकारकज्ञानस्य स्वत्वसम्बन्धेन राजाभावव्याप्यराजस्वत्वाभाववान् पुरुष इत्यादिरूपस्य वाधनिश्चयघटिततया तादृशबाधाभावघटितशाब्दसामग्रीकाले कारणाभावादेव प्रत्यक्षासम्भवेन शाब्दसामग्रयाः प्रतिबन्धकत्वकल्पनाया अनावश्यकत्वादित्यपि बोध्यम् ।
पत्वात् तेषां गणनया विंशत्यधिकसप्तशतसंख्याककारणानि भविष्यन्ति । संसर्गतावादिमते तु चतुर्विंशति कारणानि भवन्तीतिमहल्लाघवं किम्पनः कारणान्तरविशिष्टेन तेन सह गणनयेत्येतदेव संसर्गतावादिमतमुपपादयतिन चेत्यादिना।