SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ प्रथमा ] जयाऽलङ्कृतः .१३६ वाच्यम् । मन्मते तादृशप्रत्यक्ष प्रति तथाविधसामग्याः प्रतिबन्धकताधिक्येऽपि निरूपितत्वादिसम्बन्धावच्छिन्नप्रतियोगिताकराजाद्यभावविशिष्ट स्वत्वादिवैशिष्ट्यबोधे तथाविधसामग्यः प्रतिबन्धकताऽकल्पनेन तदंशे साम्यात् । तथा च पूर्वोक्तराजस्वत्वाभाववान् पुरुषः सुन्दर इत्यादिविशिष्टवैशिष्ट्यप्रत्यक्ष प्रति राज्ञः पुरुषः इत्यादिसामग्ऱ्या प्रतिबन्धकत्वकल्पनं संसर्गतावादिनां मतेऽधिकमिति । न च स्वत्वादेः प्रकारतामते घटप्रत्यक्षादिकं प्रति तादशसामग्रीप्रतिबन्धकतायां विभक्तिजन्यस्वत्वाद्युपस्थितिनिवेशाधिक्येन राजस्वत्वाभाववान्पुरुष इत्यादिबाधाद्यभावनिवेशाधिक्येन च गौरवम् । अस्मन्मते तादृशोपस्थितितथाविधवाधाभावादीनां तथाविधवाक्यजन्यशाब्दबोधं प्रत्यहेतुतया तादृशवाक्यघटितसामग्रीप्रतिबन्धकतायां तेषामनिवेशादिति वाच्यम्। भवन्मतेऽपि स्वत्वसम्बन्धावच्छिन्नप्रतियोगिताकराजाभावव्याप्यराजस्वत्वाभाववान्पुरुष इत्यादिनिश्चयस्य तदभावब्याप्यवत्तानिश्चयमुद्रया तादृशवाक्यजन्यशाब्दधीविरोधितया तादृशनिश्चयाभावस्य तथाविधसामग्रीप्रतिबन्धकतायां निवेशनस्याधिक्येन लाघवानवकाशात् । मन्मते राजस्वत्वाभाववान् पुरुष इत्यादिवाधकाभावनिवेशेनैव तादृशनिश्चयकाले प्रत्यक्षाभ्युपपत्तेस्तदभावानिवेशात् । यत्तु राज्ञः संसर्गतावादिमतं खण्डयन् प्रकारतावादिमतमुपपादयति--भवन्मते पोत्यादिना । अस्यायं भावः । बाधाभावो योग्यताबाधश्च तद्वत्ताबुद्धि प्रति तदभाववत्ता निश्चयः तदभावप्याप्यवत्तानिश्चयश्चेति प्रकारतावादिमते स्वरूपसम्बन्धावच्छिन्न राजनिरूपितस्वत्वत्वाद्यवच्छिन्नप्रकारतानिरूपितपुरुष
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy