________________
१४० व्युत्पत्तिवादः
[ कारके पुरुष इत्यादौ राजस्वत्ववान् पुरुष इत्याद्यन्वयबोधोपगमे राजकीयं स्वत्वं राजस्वत्ववान पुरुष इत्याकारकद्विविधानुमितेरेव तदतिरिताविषयकत्वेन तादृशानुमितिं प्रति प्रत्येकं तादृशवाक्यघटितसामग्ऱ्याः प्रतिबन्धकत्वद्वयम् ।
अस्मन्मते' च तादृशानुमित्योस्तथाविधवाक्यजन्याद्राजकीयः पुरुष इत्येतादृशबोधादतिरिक्तविषयकतया तत्र तादृशसामग्ऱ्याः
त्वावच्छिन्नविशेष्यताकबुद्धित्वावच्छिन्नं प्रति स्वरूपसम्बन्धावच्छिन्नराजनिरूपितस्वत्वत्वाद्यवच्छिन्नप्रतियोगिताकाभाववत्तानिश्चयः । तादृशाभावव्याप्यस्वत्वसंसर्गावच्छिन्नराजाद्यभाववत्तानिश्चयश्च बाधस्तदभावो योग्यता । एवञ्चात्र तदभावव्याप्यवत्तामुद्रया स्वत्वसंसर्गावच्छिन्नराजाद्यभावस्य
'अनुमितौ शाब्दसमानविषयकत्वं शाब्दीयविषयतानवच्छेदकधर्मावच्छिन्नविषयताया अनिरूपकत्वम् । वस्तुतस्तु शाब्दीयविषयतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकरूपावच्छिन्नानुयोगिताकपर्याप्तिकावच्छेदकतानिरूपकविषयतानिरूपकत्वमिति ।
अस्मन्मतेऽपोति । अत्रेदं तत्त्वं-समानविषयकानुमितित्वावच्छिन्नं प्रति समानविषयकप्रत्यक्षसामग्री प्रतिबन्धिकेत्यत्र समानविषयकत्वस्य यद्यतिरिक्तविषयकत्वाभावत्वरूपत्वं चेत् तदा राज्ञः पुरुष इत्येतद्वाक्यजन्यशाब्दसामग्रयाः राजकीयं स्वत्वं राजस्वत्ववान् पुरुष. इत्याकारकद्विविधानुमितेः प्रतिबन्धकता भवति समानविषयकत्वात् । यदि तु समानविषयकत्वं नाम अन्यूनानतिरिक्तविषयकत्वमित्युच्यते तदा न राजकीयं स्वत्वं इत्याकारिका न वा राजस्वत्ववान् पुरुष इत्याकारिका वा अनुमितिः प्रतिबन्धिका। अनुमितेः न्यूनविषयताकत्वात् । एवञ्च तादृशानुमितिद्वयं प्रकारतावादिमतेऽपि भवत्येवेति गम्यते गदाधरभट्टाचार्याभिप्रायो रमणीयो मया ।