________________
प्रथमा ]
जयाऽलङ्कृतः
१४१
प्रतिबन्धकत्वकल्पनं नास्ति, तथाविधानुमितितथाविधशाब्दसामग्योश्च सत्त्योरनुमितेरेवोत्पत्तेः, अपि तु राजकीयः पुरुष इत्याकारकस्वत्वसंसर्गकैकविधानुमितिं प्रत्येव तादृशसामग्यः प्रतिवन्धकत्वमेकं कल्पनीयमिति लाघवमिति । तदप्यकिचित्करम् ।
भवन्मते यत्र यादृशानुमिति: स्वीक्रियते अरमन्मतेऽपि तत्र तादृशानुमितेः स्वीकरणीयेत्यनुमितौ शाब्दसामग्यः प्रतिबन्धकत्वसाम्यात, उपदर्शितस्थले भवद्भिरनुमितिः स्वीक्रियते अस्माभिरपि स्वीक्रियते, कुतः प्रतिबन्धकताद्वयकल्पनमिति भवतापि तादृशशाब्दं प्रति तादृशानुमितिद्वयसामग्रीद्वयस्य प्रतिप्रबन्धकताया वाच्यतया साम्याच्च । एवं राजपुरुष इत्यादिसमासवाक्यात्स्वत्वसंसर्गकशाब्दबोधस्वीकारे तादृशशाब्दबोधसामग्यःस्वत्वसंसर्गेण राजविशिष्टपुरुषतात्पर्यज्ञानादिघटिताया भिन्नविषयकप्रत्यक्षादिकं प्रति प्रतिबन्धकत्वाधिक्येन गौरवात् । तत्र राजसम्बन्धिप्रकारकाभेदान्वयबोधस्वीकार एवोचितः। न च भवन्मतेऽपि तादृशाभेदान्वयबोधसामन्यः प्रतिबन्धकताधिक्येन गौरवमिति वाच्यम्। राजसम्बन्धिनि भ्वारसिकलक्षणाग्रहदशायामभेदसम्बन्धेन राजसम्बन्धिविशिष्टपुरुषे तात्पर्यग्रहसत्त्वे भवन्मतेऽपि कर्मधारयत्वेनाभिमतात्तथाविधसमासवाक्यात्तादृशशाब्दबोधस्वीकारस्यावश्यकतया तादृशसामग्रीप्रतिबन्धकताया उभयमतसिद्धत्वात् ।
यत्तु दधि पश्य इत्यादौ लुप्तद्वितीयाविभक्तिस्मरणेन दधिकर्मकदर्शनबोधवद्राजपुरुष इत्यादावपि लुप्तषष्ठीविभक्तिस्मरणेन राज
बाधत्वं स्थितम् । संसर्गतावादिमते तु स्वत्वसंसर्गावच्छिन्नराजाद्यभावव्याप्यवत्तानिश्चयमुद्रया राजनिरूपितस्वत्वभावस्य बाधकत्वे स्वत्वसंसर्गेण राजाद्यभावापेक्षया राजनिरूपितस्वत्वाद्यभावस्य गौरवग्रस्तत्वं