SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ १४२ व्युत्पत्तिवादः [ कारके सम्बन्धप्रकारकभेदान्वयबोधनिर्वाहे राजसम्बन्धिनि निरूढलक्षणां स्वीकृत्याभेदान्वयवोधोपगमो निरर्थकः । न च षष्ठीतत्पुरुषादिस्थलेऽपि लुप्तविभक्तिस्मरण एव चेदन्वयबोधस्तदा ऋद्धस्य राजमातङ्गा इत्यादिप्रयोगापत्तिस्तत्र मातङ्गादौ राजादीनामन्वयबोधोपपत्तये राजादिपदोत्तरषष्ठयादिविभक्त्यनुसंधानस्यावश्यकत्वेन समानविभक्तिकतया राजादौ ऋद्धादिपदार्थस्याभेदान्वयबोधसम्भवादिति वाच्यम् । यतस्तत्र ऋद्धराजादीनामभेदान्वयबोधानुपपत्त्या नाभियुक्तानामप्रयोगः, अपि तु समासाघटकपदसापेक्षतया राजपदस्यासामर्थ्यातिदेशात्समासासाधुत्वेन । तत्सापेक्षत्वं च तदर्थान्वितस्वार्थपरत्वं, स्वार्थश्च स्वीयवृत्तिग्रहविशेष्यः । अत एव शरैः शातितपत्रोऽयं चैत्रस्य दासभार्येत्यादौ न समस्यमानशातितदासपदादेः सापेक्षता। तदर्थैकदेशशातनदासत्वादावेव शरकरणकत्वचैत्रनिरूपितत्वादीनामन्वयात् । तदर्थान्वितेत्यत्राभेदान्वयो' वा निवेशनीय इति । तदसत्। स्वारसिकलक्षणाग्रहस्थलानुरोधेन' तादृशसमभिव्याहारज्ञानादेस्तथाविध'बोधजनकतायाः क्लृप्तत्वात्तत्र निरूढलक्षणास्वीकारे गौरवाभावात् । यत्र राजपदस्य तत्राधिकपदार्थप्रवेशात् । न च प्रकारतावादिमते किं लाघवं संसर्गतावादिमते तु तदभाववत्तानिश्चयमुद्रायां लघीयानभावः । तत्र तु तदभावव्याप्यव 'इदन्तु न युक्तम् । पुरुषपुत्रैकदेशपुरुषादौ राजादीनां स्वत्वसम्बन्धेनान्वयतात्पर्ये राज्ञः पुरुषपुत्र इत्यस्य साधुतापत्तेः । २ यत्र राजपदस्य राजसम्बन्धिनि स्वारसिकलक्षणाग्रहस्तत्र तादृशबोधस्योभयवादिसिद्धतयेति पाठभेदः । राजसम्बन्ध्यभिन्न पुरुषेत्यधिकः पाठः क्वचित् ।
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy