SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ प्रथमा ] राजसम्बन्धिनि स्वारसिकलक्षणाग्रहस्तत्र तादृशबोधस्योभयमतसिद्धतया तादृशसमभिव्याहारज्ञानस्य राजसन्बन्ध्यभिन्नपुरुषबोधे कारणतायाः क्लृप्तत्वात्, तयैव निर्वाहेण सर्वत्र लुप्तविभक्तिस्मरणकल्पने मानाभावात् । न च स्वारसिकलक्षणाग्रहस्थले तत्र तादृशान्वयबोधस्योभयवादिसिद्धत्वेऽपि निरूढलक्षणामते सम्बन्धितात्पर्यस्यानादित्वकल्पनागौरवम् । अनादितात्पर्यविषयीभूतार्थनिष्टलक्षणाया एव निरूढलक्षणात्वादिति वाच्यम् । राजपुरुष इत्यादिवाक्यजन्यशाब्दबोधात्पूर्वं नियमतो लुप्तविभक्तिस्मरणकल्पनापेक्षया तात्पर्यस्यानादित्वकल्पनायां गौरवविरहादिति । न चैवं दधि पश्यतीत्यादावपि दध्यादिपदस्य दधिकर्मकादौ लक्षणां स्वीकृत्य धात्वर्थेन समं तस्याभेदान्वयबोधोपपादनसम्भवात्तत्रापि लुप्तविभक्तिस्मरणकल्पनमनुचितमिति वाच्यम् । दध्यादिपदस्य दधिकर्मकादौ लक्षणाग्रहदशायामपि तस्य द्वितीयेतरविभक्त्यन्तत्वभ्रमदशायां दधिकर्मकः पश्यति, दधिकर्मकेण पश्यतीत्यादाविव उक्तस्थलेऽपि दधिकर्मकदर्शनान्वयबोधानुदयात् । भवन्मते दधिकर्मकः पश्यतीत्यत्र दधि पश्यतीतिस्थलीय - दधिपदोत्तरपश्यतिपदत्वरूपाकाङ्क्षाज्ञानादिघटितसामग्रीसत्त्वाद्द जयाऽलङ्कृतः १४३ धिकर्मकदर्शनान्वयस्य बोधापत्तेर्द्वितीयान्तदध्यादिपदत्वावच्छिन्नधर्मिकतादृशधात्वादिसमभिव्याहारज्ञानस्य तादृशान्वयबोधे हेतुताया आवश्यकत्वात् । दधि पश्यतीत्यादौ लुप्त द्वितीयानुसंधानस्यावश्यकत्वात्। राजसम्बन्धिपुरुषाद्यन्वयबोधे च राजपदाव्यव त्तानिश्चयमुद्रायामिति चेन्न । व्याप्यत्वस्य स्वसमानाधिकरणात्यन्ताभावीयप्रतियोगितानवच्छेदकधर्म्मवत्सामानाधिकरण्यरूपत्वात् । व्याप्यस्य द्विवारभानात् । व्याप्यगौरवे गौरवं स्पष्टमेवेति चेन्न । प्रकारतावादिमतेऽपि
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy