SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ १४४ व्युत्पत्तिवादः [ कारके हितोत्तरपुरुषादित्वप्रकारकज्ञानस्य हेतुतायाः स्वारसिकलक्षणाग्रहस्थलानुरोधेनावश्यकल्पनीयतया राजपुरुष इत्यादौ राजादिपदस्य तृतीयाद्यन्तत्वभ्रमदशायां राजसम्बन्धिपुरुषाद्यन्वयवोधापत्त्यसम्भवात् । तृतीयादिविभक्तया व्यवधानात् । दधि पश्यतीत्यादौ दधिपदाव्यवहितोत्तरत्वप्रकारकधातुपदज्ञानस्य हेतुताया अक्लृतत्वात् । पश्यति दधि इव पश्यति चैत्रो दधि इत्यादावपि दधिकर्मकदर्शनान्वयबोधात् तादृशज्ञानहेतुताया अशक्यकल्पनीयत्वाच्चेति । तण्डुलं पचतीत्यादौ तण्डुलादिपदस्यैव तण्डुलादिकमके लक्षणा विभक्तिस्तु साधुत्वार्था । एवं राज्ञः पुरुष इत्यादावपि राजादिपदस्य सम्बन्ध्यादौ लक्षणा विभक्तिः साधुत्वार्था । तत्तद्विभक्तयन्तसमभिव्याहारस्य तत्तल्लाक्षणिकार्थबोधनियामकत्वान्नातिप्रसङ्गः । विभक्तरेव प्रकृत्यर्थविशेषितस्वार्थे लक्षणेति तु न सम्भवति । विभक्तेः कुत्रापि शक्तरक्लृप्ततया तत्र शक्यसम्बन्धरूपलक्षणाया असम्भवात् । तण्डुलः प्रमेय इत्यादौ विभक्त्यर्थामिश्रितस्यैव प्रकृत्यर्थस्य भानात् । प्रकृतिशक्तः स्वार्थे क्लृप्ततया तत्र लक्षणासम्भवादिति तु चिन्तनीयम् । राजादिपदस्य राजसम्बन्ध्यादौ शक्तत्वभ्रमदशामिव तदर्थलक्षणाग्रहदशायामपि राजसम्बन्धिनः पुरुष इत्यादाविव राजसम्बन्धिसम्बन्धीपुरुष इत्याद्यन्वयबोधस्य सर्वजनानामनुभवसिद्धत्वात्। पचति चैत्र इत्यादावपि कृतिसम्बन्धेन पाकादेश्चैत्राद्यंशे विशेषणत्वोपगमे चैत्रो न पचतीत्यादावन्वयबोधानुपपत्तिद्रष्टव्या कृतिसम्बन्धस्यापि तदभाववत्तामुद्रायां भावस्य गुरुभूतत्वमस्त्येव तदभावव्याप्यवत्तामुद्रायामपि व्याप्याभावलाघवे द्विवारप्रवेशे लाघवोऽस्तु परन्तु तद्व्याप्यत्वलक्षणे व्यापकाभावप्रवेशे न तत्राप्यकाभावस्य गौरवात् । एवञ्चाभावद्वये लाघ
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy