SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ प्रथमा ] जयाऽलङ्कृतः १४५ वृत्त्यनियामकतया तत्सम्बन्धावच्छिन्नप्रतियोगिकाभावस्याप्रसिद्धया तद्बोधनासम्भवात् । ___ अथैवमपि चैत्रो जानातीत्यादौ चैत्रायंशे ज्ञानादेराश्रयतासम्बन्धेनान्वयबोधोपगमे क्षतिविरहः। श्राश्रयतासम्बन्धस्याभावप्रतियोगितावच्छेदकतया न जानातीत्यादौ आश्रयतासम्बन्धावच्छिन्नप्रतियोगिताकज्ञानाद्यभावस्यैव भानसम्भवात् । तथा च तत्राख्यातस्याश्रयत्वार्थकत्वं नियुक्तिकम् । न च धात्वर्थज्ञानादेराश्रयतासम्बन्धेन चैत्रादिरूपप्रातिपदिकार्थे साक्षात्प्रकारकत्वोपगमे ज्ञानं चैत्र इत्यादावपि तथान्वयबोधापत्तिरिति वाच्यम् । तादृशान्वयबोधे आख्यातान्तधातुसमभिव्याहारज्ञानस्य हेतुत्वात् । भवन्मतेऽप्याश्रयताप्रकारकबोधे तादृशसमभिव्याहारज्ञानस्य हेतुताया आवश्वकत्वात् । यत्तु पचति चैत्र इत्यादौ पाककृतिमांश्चैत्र इत्याकारकाख्यातार्थप्रकारकशाब्दबोधोत्पत्त्या तत्राख्यातजन्यकृत्युपस्थितेर्हेतुत्वकल्पनमावश्यकम् । तथा च तत्तदर्थविशेषाग्निवेश्यात्मनिष्ठप्रत्यासत्त्या पदार्थोपस्थितेर्हेतुत्वकल्पने शक्यलक्ष्यसहस्रार्थभेदेनाख्यातजन्योपस्थिते: कारणताबाहुल्यमित्यर्थविशेषाननिवेश्य धात्वर्थप्रकारकान्वयबोधं प्रति प्रत्ययजन्योपस्थिते: समानविशेष्यताप्रत्यासत्त्यैव हेतुत्वमुपेयते । तथा च तादृशकारणबाधेन चैत्रा वम् । द्वये च गौरवं प्रकारतावादिमतेऽप्यस्ति संसर्गतावादिमतेऽपि तदेवास्तीति चेन्न । राजनिरूपितस्वत्वाद्यभावसामानाधिकरण्यात्यन्ताभावीयप्रतियोगितावच्छेदकधर्मापेक्षया गुरुशरीरत्वात् तद्धाभावीयप्रतियोगितावच्छेदकधर्मस्य गौरवात् । गौरवं संसर्गतावादिमते स्फुटते । स्यादेतत् 'ज्ञानाश्रयत्वे लाक्षणिकज्ञानपदघटितज्ञानं चैत्र इत्यादिवाक्ये । १०
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy