SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ १४६ व्युत्पत्तिवादः [ कारके देर्धात्वर्थज्ञानविशेष्यताया भानं न सम्भवति। यदि च धातुत्वप्रत्ययत्वादीनामनुगतानां दुर्निर्वचतया नैतादशानुगतकार्यकारणभावकल्पनं सम्भवतीति मन्यते तदापि तत्र ज्ञाधातोरेव पाकादौ लक्षणा' तत्र जानातीत्यादिवाक्यात्पाककृत्यादिप्रकारकान्वयबोधोत्पत्त्या ज्ञाधात्वर्थप्रकारकान्वयबोधे तदव्यवहितोत्तरतिप्त्वादिप्रकारकज्ञानजन्योपस्थिते: समानविशेष्यत्वप्रत्यासत्त्या हेतुतायास्तत्र कल्पनीयतया तादृशकारणबाधाच्चैत्रो जानातीत्यादौ चैत्रादेनिविशेष्यतया मानानुपपत्तिर्दुर्वारैवेति। तदप्यसत् । प्रत्ययान्तरार्थविशेष्यकशाब्दवोधे व्यभिचारवारणाय तादृशोपस्थितिवैशिष्ट्यस्य तादृशोपस्थितिजन्यतावच्छेदककोटौ अवश्यं निवेशनीयतया तदनुत्तरशाब्दबोधे चैत्रादेानादिविशेष्यतया भाने तादृशकारणबाधस्याकिश्चित्करत्वात् । तादृशानुपूर्वीघटकज्ञादिधातुजन्यज्ञानाद्युपस्थितिचैत्रादिरूपविशेष्योपस्थितियोग्यताज्ञानादिघटितसामग्ऱ्या आश्रयतासंसर्गकशाब्दबोधजनने बाधकामावात्। न चैतन्मते आश्रयतासम्बन्धेन ज्ञानादिप्रकारकशाब्दबोधे तादृशयोग्यताज्ञानहेतुत्वान्तरकल्पनाधिक्यम् । आश्रयतासम्बन्धेन ज्ञानविशिष्टचैत्रादितात्पर्यकात्सर्वनाम्नः साङ्केतिकशब्दान्तराद्वा तादृशसम्बन्धेन ज्ञानादिप्रकारकचैत्रादिविशेष्यकशाब्दबोधस्य सर्वमत एव प्रसिद्धावपि तादृशशाब्दबांधे पदार्थान्तरभाननैयत्येन तन्मिश्रितयोग्यताज्ञानस्य तत्र हेतुताया आवश्यकत्वात् । ज्ञानादिविशिष्टचैत्रादिमात्रविषयकयोग्यताज्ञानभ्य ज्ञानादिविशिष्ट संसर्गतावादिमते प्रतियोगितावच्छेदकधर्मस्य गौरऽपि प्रकारतावादिमतोपदर्शितमहद्गौरवस्य सत्त्वात् । अत्रेदं वक्तव्यम् । प्रथमं योग्यताज्ञानद्वैविध्येन गौरवं दत्तं तन्न संसर्गतावादिमतेऽपि राज्ञः स्वत्वं इत्यादौ निरूपित
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy