SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ प्रथमा ] देवक्यार्थबोधस्य भोजनादिप्रवृत्तेश्च निर्वाहात् चैत्रेत्यादिप्रथमान्तपदप्रयोगोऽनर्थक इति चेन्न | संबोध्यतानुमापकासाधारणाभिमुख्यादिविरहे विशिष्य चैत्रत्वाद्यवच्छिन्ने युष्मत्पदशक्तिग्रहनिर्वाहस्यैव तत्प्रयोजनत्वात् । चैत्रत्वाद्यवच्छिन्ने बोध्यत्वग्रहं विना संवोध्यतावच्छेदकत्वोपलक्षितधर्मावच्छिन्नवाचकयुष्मत्पदस्य विशिष्यचैत्रत्वाद्यवच्छिन्ने शक्तेर्निश्वेतुमशक्यत्वात् । न चैवमपि यत्रानन्तरवाक्यं न युष्मच्छन्द घटितं चैत्रात्र घटोऽस्तीत्यादौ तत्र संबोधनपदसार्थक्यं दुरुपपादमेवेति वाच्यम् । तत्रापि तत्तद्वाक्ये स्वीयवाक्यार्थबोधार्थोच्चरितत्वरूपतात्पर्यनिश्चयार्थमेव तत्पदप्रयोगात् । तादृशतात्पर्यनिश्चयं विना श्रुतादपि तत्तद्वाक्याश्चैत्रादेः शाब्दबोधासंभवात् । चैत्रस्याश्वानयनादिबोधाय मैत्रस्य च लवणानयादिबोधायोच्चरितात्सैन्धवमानयेति वाक्याद्वैपरीत्येन चैत्रमैत्रयोस्तत्तद्वाक्यार्थबोधवारणाय तदीयतदर्थबोधे तदीयतद्बोधार्थोच्चरितत्वरूपतात्पर्यनिश्चयस्य हेतुताया श्रावश्यकत्वात् । संख्यातिरिक्तसुबर्थः प्रकृत्यर्थविशेष्यतयैव भासत इति नियमे संख्याभेदवत्संबोधनभेदोऽपि निवेशनीयः । अतः संबोधनस्य प्रकृत्यर्थविशेषणतया भानेऽपिन क्षतिः । संबोधनस्य प्रकृत्यर्थविशेष्यतयैव वा भानमुपेयम् । वस्तुतो नामार्थस्य प्रकृतिप्रत्ययार्थमन्तरा कृत्वैव क्रियान्वय इत्यनुरोधात्सुवर्थ कर्मत्वादेः प्रकृत्यर्थविशेष्यतयैव भानमुपेयते न तूक्तनियमानुरोधेन । तथा नियमे मानाभावात् । संबोधनविभक्तयन्तप्रकृत्यर्थस्यान्यत्र विशेषणतयाऽन्वयात्संबोधनस्य विशेष्यतया भानं नियुक्तिकमिति कृतं विस्तरेण । जयाऽलङ्कृतः इति महामहोपाध्यायगदाधरभट्टाचार्यविरचिते व्युत्पत्तिवादे सम्बोधनविवरणम् । ३१५
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy