SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ ३१६ व्युत्पत्तिवादः [ लिङ्गार्थे अथ लिङ्गार्थविवरणम् प्रातिपदिकप्रकृतिकाः स्त्रियामित्यनेन विहिताष्टाबादयः कचिस्त्रीत्वं प्रकृत्यर्थविशेषणतया बोधयन्ति । अजा अश्वा शूद्रा श्यामा चपला ब्राह्मणी गौरी सुकेशी गर्भिणीत्यादौ । स्त्रीत्वं च योनिमत्वम्। न च स्त्रीपरपदात्सातुत्वार्थष्टाबादिप्रत्ययो न तु स्त्रीत्वं तस्यार्थः । कचित् स्त्रीत्वबोधश्च स्त्रीप्रत्ययप्रकृतितात्पर्यविषयत्वरूपलिङ्गज एवेति वाच्यम् । खट्वादौ व्यभिचारेण तादृशहेतोः स्त्रीत्वासाधकत्वात् । प्राणित्वेन विशेषणेऽपि देवतादौ व्यभिचारात्। . वस्तुतस्त्वजवत्यपि अजा नास्तीत्यादिप्रयोगात्स्त्रीत्वस्य नार्थान्वयितावच्छेदकतया भानमावश्यकम् । अन्यथा पुंसाधारणजातिविशेषावच्छिन्नाभावस्य बाधेन तादृशप्रोगस्य प्रामाण्यानुपपत्तेः । न च प्रातिपदिकार्थ एव स्त्रीत्वं तस्य च तदर्थ एव जात्यादिमति विशेषणत्वेनान्वयः । स्त्रीप्रत्ययास्तु द्योतका एव । अत एव ___ "स्वार्थो द्रव्यं च लिङ्गं च संख्या कर्मादिरेव च । अमी पञ्चैव नामास्त्रियः केषांचिदग्रिमा" इति शाब्दिकानां कारिकापि सङ्गच्छते। तत्र स्वार्थो जात्यादिरूपो गवादिपदमुख्यार्थः । द्रव्यं गवादिरूपस्तद्धर्मी तन्मते औपचारिको गवादिपदार्थः। लिङ्गस्य प्रातिपदिकार्थत्वमावश्यकमेव। नात्र ब्राह्मणोऽपि तु ब्राह्मणीत्यादौ पुंस्त्वबोधकपदान्तराभावेन तद्बोधानुपपत्तेः । ब्राह्मणादिपदाच्च जात्यादेद्रव्यस्य च भानं नियतमेव । लिङ्गभानं तात्पर्ययोग्यताधीनं काचित्कम् । ब्राह्मणीत्यादौ पुंस्त्वाद्यबोधादिति वाच्यम् । उक्तयुक्त्या पुंस्त्वस्य प्रातिपदिकार्थत्वेऽप्यनन्तानां प्रातिपदिकपदानां स्त्रीत्वार्थकत्वे गौरवात् । लाघवेनाल्पीयसां स्त्रीप्रत्ययानां तदर्थकत्वकल्पनौचित्यात्। अत एव स्त्रीत्वसंग्रहाय प्रातिपदिकार्थत्यादिसूत्रे लिङ्गग्रहणम् । अन्यथा प्रातिपदिकार्थ एव
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy