________________
३१४
व्युत्पत्तिवादः
[ सम्बोधने
न्वितस्य सप्तम्या बोधनासंभवाच्च । किन्तु समभिव्याहृतदोहनादिक्रियैव सप्तम्यर्थः । तस्याश्च समानकालीनत्वादिकं क्रियान्तरे 'संबन्धः । तत्र वर्त्तमानार्थककृत्समभिव्याहारस्थले समानकालीनत्वं दोग्धव्यासु गत इत्यादि भविष्यदर्थकृत्स्थले प्राक्कालीनत्वं दुग्धा गत इत्यादावतीतार्थकृत्स्थले उत्तरकालीनत्वं संबन्धतया भासते । पाथसि पीते तृषा शाम्यतीत्यादावतीतार्थककृत्समभिव्याहारात्कार्यकारणभावोऽपि संबन्धतया भासत इत्यादिकमूहनीम् । गुणान्यत्वे सति सत्त्वादित्यादौ सतीत्यनन्तरं सत इत्यध्याहार्यमन्यथा लक्षणीयक्रियाभावेनोक्तसूत्राविषयतया सप्तम्यनुपपत्तेः । तत्र चास्धातोरर्थ श्राधारता गुणाम्यत्वाद्याधारतायाश्च सत्ताधार तायां तद्वन्निष्ठत्वं संबन्धतया भासत इति चिन्तामणिकारोक्तसामानाधिकरण्यलाभनिर्वाहः । शयानेन चैत्रेण भुक्तमित्यादौ शयनभोजनादिक्रिययोः समानकालीनत्वभानेऽपि तत्र लट्प्रत्ययेनैव समभिव्याहाराद्भोजनादिसमानकालीनत्वं शयनादिक्रियायां बोध्यतेऽतो न सप्तमी अन्यतस्तदनभिधान एव सप्तमीविधानात् । इति महामहोपाध्यायगदाधर भट्टाचार्यविरचिते व्युत्पत्तिवादे सप्तमीविवरणम् ।
er सम्बोधनविवरणम्
चैत्र त्वया भुज्यतामित्यादौ संबोधने चेति प्रथमा संबोधन मे - वाह । तच्च वक्तुरव्यवहितशब्दजन्यबोधाश्रयत्वेनेच्छा । प्रथमार्थतादृशेच्छाया विषयतासंबन्धेन प्रकृित्यर्थविशेषणतया भानम् । अथ संबोध्यत्वज्ञानं विनापि त्वया भुज्यतामित्यादिवाक्याधीनस्य चैत्रा