________________
.
.
-
7
"
मासव्यापिकैकैव। सा च नावान्तरकालावच्छिन्नेति तत्र तेदनवच्छिन्नत्वबोधकमुक्तवाक्यं भवेदेव प्रमाणमिति वाच्यम । सामान्यघटितविशेषीवच्छिन्नाधिकरणताकूटादेव सामान्यधर्मावच्छिन्नक्ताप्रत्ययोपपत्तेः+शुद्धसामान्यधर्मावच्छिन्ननिरूपित धिकरणतायामतिरिक्तायां मानाभावात् । यत्रे त्रिंशदिनेषु कमपि कालमधीलं तत्र मासेऽध्ययनसम्बन्धस्याव्याप्यवृत्तितया मासमधीत इति प्रयोगानुपपत्तिरपि न शक्यते वारयितुम् । __उच्यते । अभिव्याप्तिर्यावदवयवसम्बन्धः। यत्समुदायो मासा. दिपदार्थस्त एव तदवयवाः । एवं च त्रिंशदिनानां मासपदार्थतया त्रिंशदिनेषु किञ्चित् किञ्चित् कालावच्छेदेनाध्ययनसम्बन्धेऽपि मासमधीत इति प्रयोगोपपत्तिः। त्रिंशदिनसम्बन्धश्च दिनपर्याप्तत्रिशवव्यापकत्वम् । तादृशत्रिंशत्वादेश्च मासादिपदप्रवृत्तिनिमित्तस्य मासादिपदादेव लाभाद्वथापकत्वमानं द्वितीयार्थः । व्यापक-च व्याप्यविशेषाघटितमखण्डं दुर्वचमिति खण्डशोऽभावप्रतियोगितावच्छेदकत्वमभावश्च द्वितीयार्थः। प्रथमाभावे प्रकृत्यों मासा'दिराधेयतासम्बन्धेनान्वेति । मासादिनिष्ठाभावप्रतियोगितावच्छेदकत्वत्वावच्छिन्नस्य च प्रतियोगितयाऽभावान्तरेऽन्वयः । तस्य चान्वयितावच्छेदकचैत्रकर्तृकाध्ययनत्वादिरूपस्वाश्रयघटितपरम्परासम्बबन्धेनाध्ययनादावन्वयः। प्रथाभावे च प्रतियोगिव्यधिकरणत्वं विशेषणमुपादेयम् । तेन त्रिंशदिनेष्वेव च यत्राधीतं तत्र देनावान्तरदण्डादावध्ययनाभावेऽप्युक्तप्रयोगोपपत्तिः। मासपदं च त्रिंशदिनपरमेव न तु तावत्कालस्थाय्यखण्डवस्त्वन्तरपरम् । एकदिनाध्या - यनस्थलेऽपि तादृशाखण्डकाले प्रतियोगिव्यधिकरणाध्ययनाभावासत्त्वेन मासमधीत इति प्रयोगापत्ते: । मासघटकं च दितं सूर्योदयावधि सूर्योदयान्तरपर्यन्तावस्थाय्यखण्डवस्तुरूपं न तु क्रियादिप्रचयः। तथा सत्येकैकक्रियादिव्यक्तेरपि मासत्वादिकरणतया तत्र