SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ प्रतियोगिव्यधिकर णाध्ययनाभावसत्त्वेन व्यापकत्वरूपद्वितीयार्थस्य बाधापत्तेः । दिवस स्वपितीत्यादौ च दिवसादिपदं सूर्योदयावधिसूर्योदयान्तरपर्यन्त क्षणकूटपरमेव । अतो नैकदण्डादिमात्रस्वप्ने तथा प्रयोगः । अथ व्यापकत्वस्य द्वितीयार्थत्व एकमासादिव्यापकाध्ययनस्थलेऽपि मासान्तरेऽध्ययनाभावसत्त्वेन मासत्वादिव्यापकताया अध्ययने वाधेन मासमधीत इत्यादिप्रयोगानुपपत्तिः । न च मासपदेन यत्किञ्चित् त्रिंशद्दिनमात्रवृत्तिविशेषधर्मप्रकारेणानुपस्थापनेऽपि तद्धर्मवत्स्वनिरूपिताधेयत्वसम्बन्धेन मासपदार्थ - स्याभावेऽवयोगमात् यत्किञ्चिन्मासनिष्ठाभावप्रतियोगितानवच्छेदकत्वमन्वयितावच्छेदके लभ्यत इति न काप्यनुपपत्तिरिति वाच्यम् । तत्तन्मासमात्रवृत्तिधर्मविशेषाणां सम्बन्धघटकत्वेऽपि शाब्दबोधे संसर्ग तात्पर्यज्ञानस्य हेतुतया संसर्गविशेषोपस्थितेरपेचितत्वात् । सम्बन्धघटकतादृशधर्मान् विशिष्याविदुषः शाब्दबोधानुदयप्रसङ्गात् । न चेष्टापत्तिरनुभवविरोधात् । अनागतादिमासवृत्तितादृशधर्माणां विशिष्यज्ञानसामग्रथा सर्वज्ञस्य दुर्लभतयाऽस्मदादीनां सर्वेषामेव तादृशमासत्वव्यापकताबोधोच्छेदग्रसङ्गात् । न च तादृशवाक्यार्थतात्पर्यमेव संसर्ग तात्पर्यमुक्तज्ञाने बाक्यार्थघटकः सम्बन्ध: संसर्गमर्यादयैव भासत इति विशेषरूपेणानुपस्थितस्यैवोक्तवर्मघटितसम्बन्धस्य तात्पर्यज्ञाने बाधाभावबलाच्छाब्दबोधे च तात्पर्यज्ञानबलाद्धानमनपवादमेवेति वाच्यम् । एकपदार्थविशिष्टापरपदार्थरूपवाक्यार्थविशेषिततत्प्रतीतीच्छारूपतात्पप्रावाक्यार्थानिश्चये दुर्घटतया तस्य र्यविषयकनिश्चरस्य 'श्रनागतेति । मासमध्येष्यत इत्यादिप्रयोगाणामुच्छेदप्रसंग इत्यु पपादयति ।
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy