SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ २४६ व्युत्पत्तिवादः [ कारके शाब्दधीहेतुत्वे च योग्यतासंशयाच्छाब्दबोधानुपपत्तेर्विशकलिततत्पदार्थतत्तत्संसर्गविषयकत्वविशेषितप्रतीतीच्छाज्ञानस्यैव शाब्दधीहेतुताया उपेयत्वात् । तत्र च तादृशसंसर्गोपस्थितेरवश्यापेक्षणीयत्वादिति चेत् । सत्यम्। मासादिघटकतावदिनादिनिष्ठत्रिंशत्वादिरूपमासत्वादिर्मासादिभेदेन नानैव । मासादिपदप्रवृत्तिनिमित्तपरमनुगतरूपेण । अन्यथा शक्त्यानन्त्यप्रसङ्गात् सर्वोपसंहारेण व्युत्पत्ति विना प्रागप्रतीतमासादेः शाब्दानुभवानिर्वाहाच्च । न च त्रिंशत्वादिकं बुद्धिविशेषविषयत्वरूपं वाच्यम्। दिनादेव्यानात्मकत्वेन तत्र गुणरूपसङ्गयाया असम्भवात्। द्रव्यात्मकत्वेऽपि क्रमिकेषु तेषु सङ्घयोत्पत्तेरसम्भवात्। तत्र बुद्धेरनतिप्रसक्तं वैलक्षण्यमनुगतं दुर्वचम् । जातिरूपस्य तस्य सङ्करप्रसङ्गानिरस्तत्वात् । तत्तदिवसविषयकत्वरूपस्य तत्तदिनाद्यननुगमेनाननुगतत्वादिति वाच्यम् । तावत्कालस्थायिनो द्रव्यस्यापि दिनादिरूपत्वसम्भवात्। मीमांसकानुयायिभिर गत्या सङ्ख्यायाः पदार्थान्तरत्वोपगमाच्च । सङ्खयादिरूपनानादिनादिनिष्ठानुगतत्रिंशत्वादेः सुवचत्वात् । एवं च मासमधीते चैत्र इत्यादावधिकरणतैव द्वितीयार्थः । मासादिपदार्थतावच्छेदकदिनपर्याप्तत्रिंशत्वादेर्धर्मिविशेषणतापन्नस्य द्वितीयार्थाधिकरणतायां चैत्रकर्तृकाध्ययनाधारतात्वादिव्याप्यधर्मावच्छिन्नं स्वरूपसम्बन्धरूपमवच्छेद्यत्वं संसर्गतया भासत इत्युपगमेन सामञ्जस्यात् । यत्कि अनुगतरूपेणेति । बुद्धिविशेषविषयत्वोपलक्षिततत्तत्तिशत्वावच्छिन्नशक्तिरिति भावः। मीमांसकानुयायिभिरिति । स्वमते तु त्रिंशत्वरूपसंख्यात्वव्याप्यधर्मावच्छिन्नजन्यतानिरूपितजनकतावच्छेदकीभूतविषयिताशालित्वरूपानुगतानतिप्रसक्तधर्मेण तादृशबुद्धिविशेषस्यानुगमसम्भवान्नानुपपत्तिरिति भावः ।
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy