SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ ३०० व्युत्पत्तिवादः [ कारके कत्वगवादिकर्तकत्वोभयाभावबोधाय केषां चित्प्रयासोऽनादेय एवेति । पण्डितात्पुराणं शृणोति, उपाध्यायादर्धाते, रामादधीतसंदेश, इत्यादावाख्यातुराख्यातोपयोग इत्यनेनापादानता। तत्र प्रकृत्यर्थपण्डितादिकतकोचारणाधीनत्वं पञ्चम्यर्थः। तस्य च श्रवणोच्चारणार्थविशेषज्ञानादिक्रियायामन्वयः। मृत्पिण्डाद् बटोजायते इत्यादौ जनिकर्तुःप्रकृतिरित्यनेनापादानत्वम् । तत्र प्रकृतित्वं न विकारित्वम्। प्रकृतिविकृतिभावाभावेऽपि 'प्राक्केकयीतो भरतस्ततोऽभूद्', 'वायोर्जात' इत्यादौ पञ्चमीदर्शनात् । न हि सुतवपुषो मातापितृशरीरविकारत्वमपि तु तदीयशुक्रशोणितादिविकृतित्वमेव । शुक्रशोणितादेः शरीरस्थत्वेऽपि मलमूत्रादेरिव शरीरावयवत्वाभावात् । न च तत्र हेतुपञ्चम्येव नापादानपञ्चमीति वाच्यम् । गुणातिरिक्तहेतौ पञ्चम्यनुशासनविरहात्। अन्यथा दुग्धादधि जायते, मृत्तिकाभ्यो घटो जायते, शृङ्गाद्धनुर्जायत इत्यादावपि हेतुपञ्चम्यैवोपपत्तौ जनिकर्तुरित्यादिसूत्रस्यैव वैयर्थ्यांपत्तेः । तस्मात्कारणत्वमेव प्रकृतित्वम् । दण्डाद्धटो जायत इत्यादयोऽपि प्रयोगा इप्यन्त एव । अतएवेश्वरस्य द्रव्यादिकार्याप्रकृतित्वेऽपि यतो द्रव्यं गुणाः कर्मेत्यादौ पञ्चमी न च प्रकृतिपदेन कारणमात्रविवक्षायामपि क्रियाविवक्षाभावादपादानपञ्चम्यनुपपत्तिहेतुपञ्चमी च प्रकृतेऽनुपपन्नैवेति वाच्यम् । अगत्या जायत इत्यादिक्रियाध्याहारेण तत्र पञ्चम्या उपपादनीयत्वात् । हिमवतो गङ्गा प्रभवतीत्यादौ भुवः प्रभव इत्यनेनापादानता । यत्संबन्धात्प्रभवनं प्रथमप्रकाशः स प्रभवः। प्रथमप्रकाश एव प्रभवत्यर्थः। पञ्चम्यर्थः संबन्धाधीनत्वं तादृशक्रियायामन्वेति । संबन्धे च हिमवदादेः प्रकृत्यर्थस्यान्वयः। उपाध्यायादन्तर्द्धत्ते छात्र इत्यादावन्तद्धौं येनादर्शनमिच्छतीत्यपादानता। अन्तर्द्धिरन्तर्धानम् । स्वनिष्टान्यकर्तृकदर्शनविण्यताविरहोद्देश्यको व्यापारः। एवं च व्यापारानुकूलतयान्तर्द्धानघटको यत्कर्तृकदर्श
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy