________________
२६३
पञ्चमी ]
जयाऽलङ्कृतः कण्टकादेरपादानत्वं स्यादिति चेत्तर्हि तन्निष्ठदुःखोपधायकव्यापारविरहानुकूलव्यापारस्तदपादानकं स्वकर्मकं रक्षणमिति वक्तव्यम् । घटाद्यचेतनकमकरक्षणं विनाशोपधायकव्यापारविरहगर्भ निर्वाच्यम् । क्लेभयो म धारयति कूपान्ध कारस्यलील्यादौ वारणार्थानामित्यतेनापादानत्वम् । बारम क्रियाप्रतिषेधस्तदर्थकधातुयोगे ईप्सितस्तत्तत्क्रियाजन्यफलभागितया तत्तक्रियाकर्तुरभिप्रेतोऽपादानमिति सूत्रार्थः। क्रिया च भक्षणगमनादिरूपा। तात्पर्यवशात्कचित्कस्याश्चित्प्रतिषेधो वारयतीत्यादिना बोध्यते । प्रतिषेधः कतृत्वाभावानुकूलव्यापारः । कर्तृत्वाभावरूपधात्वर्थतावच्छेदकफलशालितया गवान्धादेः कर्मता । यवादिपदोत्तरपञ्चम्या यवादिगतत्वेनेच्छाविषयफलकत्वं भक्षणादौ प्रत्याय्यते । इच्छा च भक्षणादिक्रियाकर्तृनिष्ठा तदर्थेऽन्तर्भावनीया। एवं चोक्तस्थले यवकूपादिनिष्ठत्वेन गवान्धादीच्छाविषयो यो गलाधःसंयोगोत्तरदेशसंयोगादिर्गवादिनिष्ठतत्तत्फलकव्यापारावशेषकर्तृत्वाभावानुकूलव्यापारानुकूलकृतिमानित्याकारको बोधः। अन्धादेर्यद्यपि कूपगमनत्वादिना नेच्छा तथाप्यभिमुखोपगमनत्वादिना कूपगमनादेरिच्छा वर्तत एवेति । वस्तुगत्या यः कूपादिदेशस्तद्गतत्वेन क्रियाजन्यसंयोगस्य तदिच्छाविषयत्वमक्षतमेव । न च प्रकृतयवकूपादिनिष्ठफलविशेषजनकत्वमेव पञ्चम्यर्थोऽस्तु किमिच्छान्तर्भावेणेति वाच्यम्। यत्र चैत्रादेर्नान्तरीयकतया विषभोजनादिकं न तु स्वेच्छातस्तत्र तद्भोजनविरोधिव्यापारकर्त्तरि चैत्रं विषाद्वारयतीति न प्रयोगोऽपि तु सविषाद्वारयतीत्यादिरेव । तत्र पूर्वप्रयोगवारणाय सूत्रकृता ईप्सित इत्यनेन सन्प्रत्ययेनेच्छोपादानात् । अत एव यद्यवादिकं केनापि न भुक्तं तत्कर्मकभोजनाप्रसिद्धावपि भोजनफले संयोगविशेषे तद्यवादिगतत्वेनेच्छाविषयत्वप्रसिद्धथा तद्यवाद्गां वारयतीत्यादिप्रयोगोपपत्तिः । एवं च तत्र भक्षणादौ तद्यवादिकर्म