________________
२६८ व्युत्पत्तिवादः
[ कारके गाहित्वमपि स्वीकरणीयम् । विशेषणविशेष्यभावेन भासमानयोरेव फलव्यापारयोर्विषयताद्वयमवच्छेद्यावच्छंदकभावापन्नमिति तथैव तयोर्भानम् । पुष्पवन्तपदसंकेते च चन्द्रसूर्यविषयतयोरवच्छेद्यावच्छेदकभावो न भासते। अतस्तयोर्विशृङ्खनमेव भानमिति न काप्यनुपपत्तिः । यदि च वृक्षात्स्यन्दत इत्यादिर्न प्रयोगस्तदा सकमकधातोः फलविशिष्टव्यापारवाचकतामते पञ्चम्यर्थविभागजनकत्वबोधे विभागानवच्छिन्नफलावच्छिन्नव्यापारविषयकधातुशक्तिज्ञानजन्योपस्थितिः फलव्यापारयोर्वैशिष्टयानुपरक्तयोर्धात्वर्थतामते च संकेतीयबोधनिष्ठविषयतांशे विभागविषयकत्वानवच्छिनत्वफलान्तरविषयकत्वावच्छिन्नत्वोभयावगाहिज्ञानजन्योपस्थिति: कारणमभ्युपगन्तव्येत्यलमधिकेन ।
व्याप्राधिमेति दस्युभ्यो रक्षतीत्यादौ भीलार्थानामित्यनेनापादानत्वम् । मयं च परतोऽनिष्टसंभावना। जाणं चानिष्टनिवृत्त्यनुकूलो व्यापारः। तदर्थकधातुयोगे तादृशानिष्टजनकमपादानसंज्ञमिति सूत्रार्थः । एवं च पञ्चम्यर्थस्तत्र प्रयोज्यत्वम् । तच्च निरुक्तधात्वर्थघटकानिष्टेऽन्वेति । अथ यस्य व्याघ्राधीनमन्ष्टिमप्रसिद्धमथ च व्याघ्रहेतुकत्वेन मरणादिकं संभावयति तत्पुरुषपरो व्याघ्रादयं विभेतीति कथं प्रयोगः प्रमाणम् । अनिष्टे व्याघ्राधीनत्वस्य बाधादिति चेत् भयार्थकधातुयोगे प्रयोज्यताप्रकारकत्वं पञ्चम्यर्थः । तच्चानिष्टसंभावनायामन्वेति । प्रकृते च व्याघ्राधीनत्वस्य तत्पुरुषीयानिष्टे बाधेऽपि अनिष्टसम्भावनायां तत्प्रकारकत्वमबाधितमेवेति नानुपपत्तिः। एवं च शत्रुभ्रमेण मित्रादपि बिभेतीत्यादिवाक्यस्यापि प्रामाण्यनिर्वाहः । एवं भवार्यकचातुयोमे भयहेतुत्वेन संभावितमयादानमित्येक सूत्रार्थः। अनिष्टविरहानुकूलव्यापाररूपत्राणार्थकधातुयोगे तदनिष्टप्रयोजकं तदित्यपरः। अनिष्टं दुःखमेव सर्वत्रानुगतम्। यज्जन्यं दुःखं कस्यापि न प्रसिद्धयति तादृशस्याप्यहि