SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ पञ्चमी ] जयाऽलङ्कृतः ३०१ नविषयताविरहोद्देशः सोऽपादानमिति सूत्रार्थः। उक्तस्थलीयपञ्चम्या अन्तर्द्धिघटकदर्शनान्वयि कर्तृतानिरूपकत्वमेवार्थ इत्युपाध्यायकर्तृकदर्शनविषयताया यः स्वनिष्ठोऽभावस्तदुद्देश्यकव्यापारकर्ता छात्र इति तत्रान्वयबोधः। ____ इदन्तु बोध्यम् । अस्मादयं दीर्घोऽस्मादयं तार इत्यादौ नापादानपञ्चमी, दैाद्यवधेरपादानत्वस्याननुशासनात् । ध्रुवमपाय इत्यनेन हि अपाये विभागरूपक्रियायां क्रियान्तरजन्यविभागे च यदवधिभूतं तस्यापादानत्वं विधीयते न त्ववधिमात्रस्य । यदि चापायपदं वस्तुमात्रोपलक्षणं तदा तदुपादानमर्थकं स्यात्। अथ तत्पदेन क्रियामात्रमुपलक्ष्यते। अस्मादीर्घ इत्यादीचभवतीत्यध्याहार्यम्। दीर्घभवनं च दीर्घतैवेति क्रियायाः सावधित्वम्। आवश्यकश्च क्रियाध्याहारस्तद्योगमन्तरेण कारकत्वास्यानिर्वाहात् । एवं बलाहकाद्विद्योतते विद्युदित्यादौ द्योतनादिक्रियायाः सावधिकत्वविरहेण निःसृत्येत्यध्याह्रियते। अत एव नैतदपादानम् । निर्दिष्टविषयमपि तूपात्तविषयमिति वैयाकरणाः। निर्दिष्टत्वमुच्चरितत्वम्। उपात्तत्वमध्याहृतत्वम्। विषयोऽवधित्वनिरूपकः। निःसरणं च विभाग एवेति उक्तस्थलेऽध्याहृतक्रियायाः सावधिकत्वमिति चेत् । एवं सति वृक्षात्पततीत्यादौ वृक्षादेरसंग्रहः। तत्रापि विभागक्रियाऽध्याहियत इति चेत्, तत्र निर्दिष्टविषयताप्रवादविरोधः । एवमस्मादीर्घ इत्यादावपि क्रियाध्याहारे तत्समशीले माथुराः सौन्नेभ्यः आढ्यतरा इत्यादावपि क्रियाया अध्याहरणीयतया तत्रापादानस्यापेक्षितक्रियात्मकस्योपात्तविषयान्तर्भावप्रसङ्ग इति तादृशापादानयोरविशेषापत्तिः । एवं च "उपात्तविषयं किञ्चिन्निर्दिष्टिविपयं तथा। अपेक्षितक्रियं चेति त्रिधापादानमुच्यते” इति शाब्दिकविभागविरोधः। अथापायपदेन क्रियासामान्य क्रियाजन्यविभागश्च विवक्षितः । एवं च वृक्षात्पततीत्यादौ न विभागात्मकक्रियाध्याहार इति तदपादानमपि निर्दिष्टविषयम् ।
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy