________________
३०२ व्युत्पत्तिवादः
[ कारके यत्रापादानतानिर्वाहार्थमेव क्रियाध्याहारो बलाहकादित्यादौ तदपादानमुपात्तविषयम् । यत्र वाक्यसमाप्त्यर्थं तदध्याहारस्तत एव चापादानतानिर्वाहो यथा माथुराः स्रौघ्नेभ्यः अस्माद्दीर्घ इत्यादौ तत्रापेक्षितक्रियत्वमिति चेत् । एवमप्ययमस्मात्तार इत्यादावगतिस्तत्र हि तारभवनं तारत्वं जातिः। जातेश्च न सावधिकत्वमिति कुतोऽपादानता। अन्यथाऽयमस्माद्गौरित्याद्यापत्तिः। न च जातेरपि तारत्वस्यैवायमस्मात्तार इति प्रतीतिबलाद्भवत्येव सावधिकत्वमिति वाच्यम् । यदेव ह्येकापेक्ष तारत्वं तदेवन्यापेक्षया मन्दत्वं समनियतजातिद्वयानभ्युपगमात् । समनियतत्वानभ्युपगमे जातिसङ्करप्रसङ्गात् । तथा च तारत्वादेः सावधिकत्वे स्वापेक्षया यस्तारस्तमपेक्ष्य स्वस्मिन्मन्दव्यवहार इव तारव्यवहारोऽपि स्यात् । स्वापेक्षया यो मन्दस्तमपेक्ष्य तारव्यवहारवत्तमपेक्ष्य स्वस्मिन्मन्दव्यवहारोऽपि स्यात् । अथ तदपेक्षया तारव्यवहारस्तत्सजातीयत्वे सति साक्षात्कारप्रतिबन्धकतावच्छेदकजातिमत्त्वमवलम्बतेऽतो न स्वापेक्षया यस्तारस्तदपेक्षया तारव्यवहारोन्यापेक्षया तारेऽपि भवतीति चेत्तर्हि अस्मात्तार इत्यत्र साजात्यसमानाधिकरणसाक्षात्कारप्रतिबन्धकतावच्छेदकजातिरूपतारपदप्रवृत्तिनिमित्तघटकसाजात्ये साक्षात्कारे च पञ्चम्यान्वयो वाच्यः। तावतैव दर्शितातिप्रसङ्गवारणसंभवात् । साजात्यं तवृत्तिशब्दत्वजातिस्तस्याः साक्षात्कारस्य च न सावधिकत्वमिति न सावधिकत्वरूपमपादानत्वं तत्र पञ्चम्यर्थः । न च साजात्यघटकजाते: सावधिकत्वाभावेऽपि वृत्तेः सावधिकत्वमस्त्येव । एवं साक्षात्कारो विलक्षणविषयिताशालिज्ञानविषयिता च सावधिकैवेति तत्र पञ्चम्यान्वयेन सामञ्जस्यमिति वाच्यम् । यतो वृत्तेविषयितायाश्च स्वाधारविषयप्रतियोगिकत्वमेव न तु तदवधिकत्वम् । तदवधिकलतत्प्रतियोगिकत्वयोवस्तुनोर्भेदात् । अन्यथा घटे वर्त्तते घटमवगाहत इत्यत्र घटाद्व