SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ पञ्चमी ] जयाऽलङ्कृतः ३०३ तते घटादवगाहत इति प्रयोगस्य घटस्यापादानत्वेन दुर्वारत्वात् । अत एव प्रतियोगिताया अपादानत्वानात्मकतयाऽन्यादिशब्दयोगे प्रतियोगिवाचकपदात्पञ्चमी सूत्रान्तरेणानुशिष्टा। प्रतियोगित्वस्यापादानतारूपत्वं तद्वैयर्थ्यांपत्तेः। अथान्यादिशब्दार्थभेदादेः क्रियात्वाभावेन कारकत्वासंभव इति मुनिः सूत्रान्तरं प्रणिनायेति चेत् । तत्किं तारादिघटकवृत्त्यादेः क्रियात्वमनुमन्यते भवता। तस्मादत्र पञ्चम्युपपादकं सूत्रान्तरमनुसर्तव्यमिति गुणो द्रव्याद्भिग्न इत्यादौ अन्यारादिति सूत्रेणैव पञ्चमी । अन्यपदस्यान्यार्थकपरत्वादिति बहवः। न चान्यपदेन तदर्थकविवक्षणे तत्समानार्थकेतरपदोपादानवैयर्थ्यम्। अन्येतरपदयोरेकस्यान्योन्याभावविशिष्टार्थपरत्वात् । अपरस्य पृथक्त्वरूपगुणविशिष्टार्थपरतया सार्थक्यात्। पृथग्विनेत्यादिसूत्रे पृथक्पदोपादानं तद्योगे वैकल्पिकतृतीयोपपत्त्यर्थम् । वस्तुतस्तत्र पृथक्पदमसाहित्यार्थक, न तु गुणवदर्थकम् । चन्द्रात्पृथगप्यनङ्ग इत्युदाहरणेऽसाहित्यस्यैव प्रतीतेः । ___ यत्तु अन्यादिपदं नान्योन्याभावार्थकपदपरं, घटः पटो नेत्यादावपि नञस्तदर्थकतया तद्योगे पञ्चम्यापत्तेः। न चान्यपदमन्योन्याभावविशिष्टार्थपदपरम्। तस्यापि विशिष्टार्थवाचकत्वात् । नञ्पदं च न तथा तदुपस्थितार्थस्य नामान्तरार्थे भेदान्वयसंभवेन तत्र धर्ममात्रवाचकत्वादिति वाच्यम्। द्रव्याद्गुणस्य भेद इत्यादौ पञ्चमीनिहाय भेदार्थकपदस्यैवोपादेयत्वात् । अन्यादिपदस्यापि वाच्यविशेषणभेदार्थकत्वादित्याचार्यानुसारिमतं तन्न । अन्योन्याभाववाचकपदस्य पञ्चम्यनुपयोगित्वे द्रव्यादन्यो गुण इत्यादौ पञ्चम्यनुपपत्तेः । गुणादौ पृथक्त्वरूपगुणासंभवेनान्योन्याभावस्यैवान्यपदार्थत्वात् । अन्योन्याभावार्थकपदस्य पञ्चमीप्रयोजकत्वेतत्र निपातातिरिक्तविशेषणप्रवेशेनापि नञ्योगे पञ्चमीवारणसंभवात् । वस्तुतस्त्वन्योन्याभावीयप्रतियोगित्वरूपार्थविवक्षायां
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy