SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ ३०४ व्युत्पत्तिवादः [ कारके पञ्चमी नञ्पदोपस्थापिताभावस्य च प्रतियोगिता न विभक्त्या बोध्यते । नर्थे प्रतियोगितयैवाधेयत्वातिरिक्तविभक्त्यर्थान्वयस्य व्युत्पन्नत्वान्न चैत्रस्येत्यादौ पष्ठ्याद्यर्थस्य नार्थप्रतियोगित्वादतो न तद्योगे पञ्चमी। अथ पृथक्त्वगुणानङ्गीकर्तृमीमांसकमते सूत्रे अन्यतरपदयोरेकतरोपादानवैयर्थ्य दुर्वारमुक्तरीत्या सार्थकत्वासंभवादिति चेन्न । तन्मतेऽप्येकपदस्य प्राधान्येनान्योन्याभाववाचकस्यापरपदस्य तद्विशिष्टवाचकस्य संग्राहकतया सार्थक्यात् । न च पटाद्भेद इत्यादौ क्रियायोगादपादानपञ्चम्यव । धातूपस्थाप्यपदार्थप्रतियोगिताया अपादानतारूपत्वे घटे वर्तत इत्यादौ पञ्चमीप्रयोगस्य परत्वेनाधिकरणसप्तम्यादिना बाधादेवानवकाशात् । अभावीयविलक्षणप्रतियोगिताया एव वा तथात्वात् । घटादन्यत्वमित्यादौ चापादानत्वासंभवेऽप्यन्यपदयोगेनैव पञ्चमी। तत्रान्यपदाद्विशेषणतया भासमानभेद एव पञ्चम्यान्वयोपगमात् । न तु भावप्रत्ययात्प्राधान्येन भासमाने तस्मिन् पदार्थकदेशेऽपि ससंबन्धिके प्रतियोगिसंबन्धान्वयस्य व्युत्पत्तिसिद्धत्वादिति वाच्यम् । प्राधान्येन भावप्रत्ययाद्भासमानेऽप्यन्यत्वे घटपटादिप्रतियोगिकत्वान्वयविवक्षया घटादन्यत्वमिति प्रयोगात्तन्निर्वाहायैवान्येतरपदद्वयोपादानम् । अथ वा ध्रुवमपाये इत्यत्रावधित्वमेव विवक्षितं न तु प्रतियोगित्वमुभयानुगतरूपाभावादिति पटाद्भेद इत्यादौ पञ्चम्युपपत्तयेऽन्येतरपदोपादानम् । वस्तुतोऽन्येतरपदं स्वरूपपरमेव । अर्थपरत्वे घटादन्य इतिवद्धटादेक इति प्रयोगापत्तेः । यद्येकपदस्यान्यत्वरूपेण नान्यार्थकताऽपि तु समभिव्याहृतान्यत्वोपलक्षिते वस्तुनि. बुद्धिविषयतावच्छेदकघटत्वादिनैव । चैत्र एकमानयति मैत्रश्चापरमित्यादौ घटत्वपटत्वादिनैवानयनकर्मतादिप्रतीतेनं तु पटघटान्यत्वादिना । अन्यत्वान्वयिप्रतियोगिवाचकपदासमभिव्याहारात् । अन्यथा तद्योगे पञ्चम्या असाधुत्वेऽपि घटस्यैक इति प्रति
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy