SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ ६४ व्युत्पत्तिवादः [ कारके इत्यादिवाक्यजन्यबोधे प्रतियोग्यभावान्वयौ च तुल्ययोगक्षेमाविति न्यायेन तादृशाननुगतसंबन्धावच्छिन्नप्रतियोगिताकाननुगताभावा एव भासेरन् न तु नीलवृत्तिरेकोऽभावः, तथा सति यत्किंचित्तादृशाभावतात्पर्येण प्रयुक्तस्य नीलेऽपि न नील इत्यादिवाक्यस्य प्रामाण्यं स्यात् । इदन्तु बोध्यम् । विशेषणविभक्तेरभेदार्थक वे घटो न नील इत्यादौ नत्रा नीलाद्यभेदाभाव एव प्रत्याययिष्यते न तु नीलादिभेदः। यादृशसमभिव्याहारस्थले येन संबन्धेन यत्र धर्मिणि येन रूपेण यद्वत्त्वं ननसत्त्वे प्रतीयते तादृस्थले नञा तद्धर्मिणि ताहशसंबन्धावच्छिन्नतादृशधर्मावच्छिन्नप्रतियोगिताकतदभावबोधस्य व्युत्पत्तिसिद्धत्वात् । प्रतियोग्यभावान्वयौ चेत्यादेरप्ययमेवार्थः। दात्म्याभाववान् घट इत्याकारको बोधो नञोऽसत्त्वे येन सम्बन्धेन येन रूपेण यद्वत्ता यत्र यादृशसमभिव्याहारात्प्रतीयते तादृशसमभिव्य हारेण नघटितेन तत्सम्बन्धावच्छिन्नतद्धावच्छिन्नप्रतियोगिताकाभाव एट तत्र प्रतीयते । इत्यर्थके 'प्रतियोग्यभावान्वयौ तुल्ययोगक्षेमा' वित्यभियुत् तवचनात् । तथा च तद्वयक्तित्वभेदेन तद्व्यक्तित्वघटितसम्बन्धस्यापि भेदात् । तत्तत्सम्बन्धावच्छिन्नप्रतियोगिताकाभावस्यापि भेदेन नीलेऽपि घटे स्वेतरनीलगततद्वयक्तित्वघटितोक्तसम्बन्धस्याभावेन तत्सम्बन्धावच्छिन्नप्रतियोगिताकतदभावस्य तत्सम्बन्धस्य व्यधिकरणतया तत्सम्बन्धावच्छिन्नप्रतियोगिताकस्वात्मकनीलाभावस्य च सत्त्वेन न नील इति प्रयोगापत्तिः । ताद त्म्यत्वेन संसर्गत्वे स्वकीयसंयोगेन वह्निमति अन्यदीयसंयोगस्याभावेऽपि संयोगेन वह्निर्नास्तीति यथा न भवति तथा तादात्म्येन नीलो नेति न प्रयोग इति। न च तत्तद्वयक्तित्वावच्छिन्नप्रतियोगिताकभेदकूटत्वावच्छिन्नप्रतियोगिताकर यैकस्यैवाभावस्य संसर्गत्वेन न संसर्गभेदात्तत्सम्बन्धावच्छिन्नप्रतियोगिताका भावभेद इति न नीलेऽपि न नील इति प्रयोगापत्तिः । न च कटत्वमपेक्षाब द्धिविषयत्वमेव ।
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy