SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ प्रथमा ] जयाऽलङ्कृतः अथर्वव्यक्तिनिष्ठतादृशधर्मस्य विशिष्यज्ञातुमशक्यत्वेऽप्येकमात्रवृत्तिधर्मत्वादिना सामान्यप्रत्यासत्तितः सुग्रहत्वमेव । अभेदस्य संसर्गतामतेऽप्येतादृशानुगताभेदस्यैव तथात्वमुचितम्। तत्तव्यक्तित्वावच्छिन्नभेदाभावकूटस्य विशिष्य तथात्वे घटो न नील घट इत्यादौ तद्व्यकिात्वं विभक्त्यर्थः । तस्मिन् स्वरूपसम्बन्धावच्छिन्नाधेयतासम्बन्धेन नीलरूपप्रकृत्यर्थस्यान्वयः। तस्य च स्वरूपसम्बन्धेन घटेऽन्वयः । तथा च नीलवृत्तितयक्तित्ववान् घट इत्यन्वयबोधः । सुन्दरः पुत्रो भविष्यतीत्यत्र पुत्रगततद्वयक्तित्वे व्यवहारस्यादर्शनेन तत्र विभक्तेः शक्तिग्रहाभावेन कथन्तस्य शाब्दबोधविषयतेत्यत आह-अपूर्वव्यक्तिनिष्ठेत्यादि । विशिव्येति । स्वरूपतस्तादशतद्वयक्तित्वस्येत्यर्थः । एकमात्रवृत्तिधर्मत्वादिनेति । भेदविशिष्टाव्यल्वधर्मणेत्यर्थः । सामान्यप्रत्यासत्तीति । सामान्यधर्मरूपा चक्षुषोऽपूर्वतद्व्यक्तित्वे प्रत्यासत्तिः सन्निकर्ष इत्यर्थः । चक्षुस्सन्निकृष्ट . स्यक्तित्वे यदिदं दविशिष्टान्यदिति ज्ञानं तत्प्रकारीभूतभेदविशिष्टान्यत्वम् । सकलतद्व्यक्तित्वे इति चक्षुषः...स्व्रजन्यज्ञानप्रकारीभूतभेदविशिष्टान्यत्वरूपधर्मवत्वस्य पूर्वतद्वयक्तित्वे सन्निकर्षात्। भेदविशिष्टान्यत्वेन ज्ञायमाने सकलतद्व्यक्तित्वे विभक्तेः शक्तिग्रहात् अपूर्वस्यापि शाब्दबोधविषयतापत्तिरिति बोध्यम् । एतादृशानुगताभेदस्यैवेति। भेदविशिष्टान्यस्यैवेत्यर्थः । तथात्वं संसर्गतात्वमित्यर्थः । विशिष्य तथात्वे इति । तद्व्यक्तित्वावच्छिन्नप्रतियोगिताक भेदाभावत्वेन संसर्गत्वे इत्यर्थः । घटो न नील इत्यादीति । अयं भावः । नीलो घट इत्यत्र यदि तद्वयक्तित्वावच्छिन्नप्रतियोगिताकभेदाभाव एव नीलस्य घटे संसर्गस्तहि नीलो न घट इत्यत्रापि तद्व्यक्तित्वावच्छिन्नप्रतियोगिताकभेदाभावसम्बन्धावच्छिन्नप्रतियोगिताक नीलाभाव एव घटे ना बोध्येत । न तु तत्र तादात्म्यं विभक्त्यर्थः। नीलस्रा वृत्तित्वसम्बन्धेन तादात्म्येऽन्वयं कृत्वा नीलवृत्तिता
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy