________________
एवं च नयो भेदबोधकत्वं न कुत्रापि संभवति अनीलंघटमानयेत्यादौ घटपदसामानाधिकरण्यानुरोधेनानीलपदस्य नीलभिन्नपरतया नञो भेदवत्येव लक्षणाया उपगन्तव्यत्वात् ।
नच्चापेक्षाबुद्धिभेदेन भिन्नं तदवच्छिन्नप्रतियोगिकाभावोऽपि भिन्न एवेति न संसर्गस्यैक्यमिति वाच्यम् । तत्तत्कूटत्वावच्छिन्नाभावस्य समनियतत्वेन ममनियताभावस्य - क्येन संसर्गभेदाभावात् । संसर्गतावच्छेदकीभूततादशा-। भावत्वस्य तद्व्यवि तत्वभेदभिन्नतया तदवच्छिन्नसंसर्गताभिन्नैव स्यादिति न, स्वरूपत एव ताद शाभावस्य संसर्गत्वोपगमात् । संसर्गघटकतव्यक्तित्वादेरनुपस्थितत्वेऽपि न क्षतिरनुपस्थितस्याऽपि संसर्गतया भानस्वीकारादिति वाच्यम् । बहुषु घटेषु बहुनीलतादात्म्यसत्त्वे बहुघटघटकद्वित्रघटेष म्वान त्मकवहुनीलान्तर्गत द्वित्रनीलतात्पर्येण नीला घटा इत्यापत्तेरित्यलम् ।
इदन्तु तत्त्वमित् देग्यमाशयः । यदि नीलो घट इत्यादौ विशेषणविभक्तेस्तादात्म्यम प्रस्तहि स्वरूपसम्बन्धावच्छिन्नप्रतियोगिताकतादाम्याभाव एव नीलो न घट इत्यादौ नञा बोद्धचेत। प्रतियोग्यभावान्वयौ तुल्ययोगक्षेमाविर्वा । व्युत्पत्तेः । तथा च तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकाभावरूपभेद बोधकत्वं नञः सकललोकप्रसिद्धमुच्छिन्नं स्यादिति बोध्यम् । तद्भेदतत्ता आत्म्याभावयोरैक्येऽपि भेदत्वेन भेदबोधकत्वं न स्यादिति तात्पर्य्यम् ।
न च अनीलं घटा नयेत्यादौ तादात्म्यार्थकविभक्त्यभावेन नजो नीलभेदबोधक त्वमेवेति भेदबधिकत्वन्नोच्छिन्नमित्यत ग्राह-अनीलं घटमानयेत्यादि। घटेन सह सामानाधिकरण्यान्वयानुरोधेनानीलपदस्य नीलभिन्नार्थकत्वं वक्तव्यन्तदर्थञ्च न भेदवति लक्षणा वक्तव्या। ततश्च भेदमुख्य विशेषकोपस्थितिजनकत्वमुछिन्नमेवेति बोध्यम् । अभेदस्य प्रकारत्वे सम्भवत्यपि