SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ - इदं तु तत्त्वम् । असमस्तनीलो घट इत्यादिस्थलेऽभेदस्य संसगतोपगमेऽपि गौरवविरहात् तत्र विशेषणविभक्तेर्वृत्तिकल्पनमनुचि संसर्गतयैव भानमुचितमित्याह-इदन्तु तत्त्वमित्यादिना। विशेषणविभक्तेवृत्तिकल्पनमिति । संसर्गताभिन्नतन्निष्ठविषयताकशाब्बोधे वृत्तिज्ञानाधीनतद्विषयकोपस्थितेर्हेतुतयाऽभेदस्य प्रकारतया भानोपगमे विशेषणविभक्तेस्तत्र वृत्तिकल्पनमावश्यकन्तदेव गौरवं संसर्गतया तु अ काङ्क्षयैव भानोपपत्तौ संसर्गतामते तत्र वृत्तिकल्पनं नास्तीति लाघवमिति बोध्यम् । न च संसर्गतामते अभेदसंसर्गकशाब्दबोधस्य नीलस्य घट इत्यादिवाक्यादभावायाभेदसंसर्गकशाब्दबोधे प्रथमान्तनीलपदसमभिव्याहृतप्रथमान्तघटपदत्वरूपाकाङ्क्षाज्ञानस्य कारणत्वं वाच्यम्। प्रकारतामते ८ तादृशकार्यकारणभावानभ्युपगमेन संसर्गतामते तादृशाकार्यकारणभावो मन्मते वृत्तिकल्पनमित्युभयोः साम्येन कथं वृत्तिकल्पनमनुचितमिति वाच्यम् । विरुद्धविभक्त्यन्तघटितात् नीलस्य घट इत्यादिवाक्यादभेदप्रकार बोधवारणाय अभेदप्रकारकबोधवादिनाऽपि तादृशाकाङ्क्षाज्ञानस्य कारण त्वाभ्युपगमेन तदंशे साम्यात् वृत्तिकल्पनस्य गौरवेणानुचितत्वध्रौव्यात् । न च संसर्गतावादिनामपि यत्राभेदे विभक्तेश्शक्तिभ्रमो लक्षणाग्रहो वा तत्राभेदप्रकारक एव बोधस्तैरभ्युपेयः। तथा चान्यत्राभेदसंसर्गकोऽत्रादप्रकारको द्विविधो बोध इष्टस्तेषां तादृशोभयबोधस्य नीलस्य घट इत्यादिवाक्याद्वारणाय तत्तद्बोधे आकाङ्क्षाज्ञानस्य कारणत्वे कार्यकारणभा वद्वयम् । प्रकारतावादे चाभेदसंसर्गकबोधस्याऽभावेन अभेदप्रकारक एवः एव बोध इत्याकाङ्क्षाज्ञानस्याभेदप्रकारकबोधस्य च एक एव कार्यकारणभाव इति तदंशे लाघवेन वृत्तिकल्पनमनाधिक्येन नानुचितम् । किञ्च संसर्गतावादिमते उक्तयोविविधबोधयोर्योग्यताज्ञानमपि भिन्न भिन्नमभेदसंसर्गकबोधे अभेदसंसर्गकनीलप्रकारकम् । अभेदप्रकारकबोधे अभेदनिष्ठस्वरूप
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy