________________
भावाख्यातस्थलवदित्यवधेयम् । अमेदान्वयबोधश्च विरूपोपस्थितयोरेवेति व्युत्पत्तिः घटो घटः, दण्डवान् दण्डवान, पाकं पचतीत्यादौ घटत्वदंडवत्वपाकत्वाद्यवच्छिन्ने तत्तद्रूपावच्छिन्नस्य तथाविधान्वय
त्वात्तत्राभेदेन विशेषणवाचकस्तोकादिपदाद्वितीया तत्फलितमेव क्रियाविशेषणानाङ्कर्मत्वम् । तत्र क्रियापदं क्रियते इति व्युत्पन्या फलपरम् । न च कर्तुरिति कर्मत्वे तद्रूपे कर्मणि लकारापत्त्या स्तोकः पच्यत इत्यापत्तिरिति वाच्यम् । कर्तृसाहचर्यात्कर्मणो भेदेन धात्वर्थावितस्यैव लकारादिप्रत्ययविधायकशास्त्रे ग्रहणेनादोषात् । अत एव स्तोक पाक इत्यादौ षष्ठ्यपि न । न च मन्दम्बहति पवन' इत्यादौ व्यापारेऽभेदान्वयिमन्दस्य कर्मत्वानापत्त्या अपूर्वमेव कर्मत्वबोधकम्वचनं क्रियापदञ्च धात्वर्थमात्रपरमिति वाच्यम् । व्यापारे मन्दतायां तज्जन्यफलस्यापि मन्दत्वसत्त्वात्तत्रापि फले एव मन्दान्वयात् न च कर्मपदस्यान्यतरसम्बन्धघटितोक्तार्थकत्वे कर्मणि द्वितीयेत्यस्य गुर्वर्थबोधकत्वापत्तिः । विभक्तिशक्यतावच्छेदके (कत्वे) गौरवापत्तिश्चेति वाच्यम् । कर्मत्वशक्तिमत्त्वेनैव कर्मपदशक्यत्वादिति वदन्ति ।
पूर्वमभेदान्वये प्रातिपदिकार्थे स्वसमानविभक्तिकेनेत्यादिनियममुक्त्वा तत्प्रयोजिकां प्रथमान्तनीलादिपदसमभिव्याहृतप्रथमान्तघटपदत्वादिरूपामाकाङ्क्षाञ्चोक्त्वेदानीमपरस्तत्र नियम उच्यते-अभेदान्वयबोधश्चेत्यादिना । विरूपोपस्थितयोरेवेति। ननु एकव्यक्तेरेवाभेदान्वयात् द्विवचनमनुपपन्नमिति चेत्-न। विरूपाभ्यां विभिन्नरूपाभ्यामुपस्थितो याभ्यां तौ विरूपोपस्थितौ तयोविरूपोपस्थितयोरित्यर्थः । इदञ्चाध्याहृतस्य पदयोरित्यस्य विशेषणम् । तत्रत्यषष्ठ्यर्थजन्यत्वस्य बोधेऽन्वयः। तथा च भिन्नरूपेणोपस्थापकपदजन्य एवाभेकान्वयबोध इति नियमाकार इति पदे द्वित्वान्वयेनानुपपत्त्यभावात् । नचैवं नीलो घट: घटो घट इति वाक्यद्वय