________________
प्रथमा ]
जयाऽलङ्कृतः
७६
बोधानुदयात् । अथ तत्प्रयोजकसमानविभक्तिकत्वादेः सत्त्वात्कथं न तादृशान्वयबोधः ?
अत्राहुः। यादृशं फलं कचित्प्रसिद्धयति तादृशस्यैवापत्तिः सम्भवति क्लृप्तसामग्रीबलात् । यादृशं च सर्वथैवाप्रसिद्धं. तादृशस्य चापादकाप्रसिद्धरापत्तिरशक्यैवेति घटत्वाद्यवच्छिन्नविशेष्यताकाभेदसंसर्गकघटत्वाद्यवच्छिन्नप्रकारकशाब्बोधस्य क्वचिदप्यनुदयात्कथं तदापत्तिः । अथ घटो नीलघट: दण्डवान् रक्तदण्डवा
• जन्योऽपि घटत्वांवच्छिन्नप्रकारताविशेष्यतानिरूपिताभेदनिष्ठसंसर्गतानिरूपकस्समूहालम्बनात्मको बोधो नियमाक्रान्तत्वेन साधुस्स्यादिति वाच्यम् । भावे क्तः विरूपे विभिन्नप्रकारिके ये उपस्थिते उपस्थिती इत्यर्थस्तत्प्रयोज्या या प्रकारताविशेष्यतारूपा विषयता तन्निरूपक एव योऽभेदस्तद्विषयकबोध इत्यर्थः । उपस्थितेः प्रयोज्यत्वसम्बन्धेन षष्ठयर्थविषयतायामन्वयस्तस्य निरूपकत्वसम्बन्धेना भेदेऽन्वयः । उपस्थितिविषयताविशिष्टवाभेदनिष्ठा शाब्दबोधीया संसर्गता। वैशिष्ट्यञ्च स्वावच्छेदकधर्मेतरधर्मावच्छिन्नविषयताप्रयोज्यविशेष्यतानिरूपितत्वस्वप्रयोज्यप्रकारतानिरूपितत्वोभयसम्बन्धेन निरुक्तसमूहालम्बनीयाभेदनिष्ठाया निरुक्तसंसर्गताभिन्नत्वेन तद्बोधस्य नियमाक्रान्तत्वेनासाधुत्वात् ।
तत्प्रयोजकेति । अभेदान्वयबोधप्रयोजकेत्यर्थो न “तु समानधर्मावच्छि नत्रकारताविशेष्यताकाभेदान्वयप्रयोजकेत्यर्थः । तादृशबोधस्याप्रसिद्धत्वेन तत्प्रयोजकस्याप्यप्रसिद्धेः । यादृशं फलमिति । यद्धविच्छिन्नं फलमित्यर्थः । तादृास्यैवेति । तद्धावच्छिन्नस्यवेत्यर्थः । क्वचिदप्यनुदयादिति । तथा च तद्धविच्छिन्नकार्यतानिरूपितकारणताश्रयस्याप्रसिद्धया नापत्तिसम्भवः । कतिपयकारणाधिकरणे कार्याभावप्रयोजकजिज्ञासाया एवापत्तिपदार्थत्वात् । घटो नीलघट इत्यादि । अत्र नीलत्वा