SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ व्युत्पत्तिवादः [ कारके नित्यादौ तादृशशाब्दबोधस्य प्रसिद्धिः । विधेयकोटावधिकावगाहिनः शाब्दबोधस्य नवीनैः स्वीकारादिति चेत्तर्हि घटाद्यंशे विशेषणतावच्छेदकविधया नीलादिभाननियामकनीलाद्युपस्थि देरधिकस्य भानेऽपि घटत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यतानिरूपकशाब्दबुद्धित्वस्य सत्त्वात्तदवच्छिन्नकार्यकारणस्य घटत्वावच्छिन्नोपस्थितेः प्रथमान्तघटपदसमभिव्याहृतप्रथमान्तघटपदत्वरूपाकाङ्क्षायास्तात्पर्य्यस्य च घटो घट इत्यत्रापि सत्त्वादिति भावः ।। विधेयकोटावधिकावगाहिन इति । विधेयघटकतयाऽखिलोद्देश्यं तदितरञ्चावगाहिन इत्यर्थः । उद्देश्यस्य प्रथमावगतत्वेन तस्यापूर्वबोध्यत्वरूपविधेयत्वासम्भवेन विधेयतयोद्देश्यावगाही शाब्दबोधो न सम्भवतीति प्राचामभिमतम् । __ घटत्वेनावगतेऽपि घटो नीलघटो न वेति सन्देहस्य सर्वानुभवसिद्धतया नीलघटार्थिनस्तत्र प्रवृत्तिन स्यादिति तादृशप्रवृत्तिसिद्धयर्थं प्रकृतसन्देहोच्छेदाय घटो नीलघट इति बोधोऽवश्यमभ्युपेयः । तथा च अगत्या कस्यचिदंशस्यापूर्वत्वे तद्विशिष्ट: पूर्वमवगतोऽप्यपूर्व एवेति वक्तव्य एवेत्युद्देश्यस्यापूर्वधर्मविशिष्टस्य विधेयतयाऽवगाही बोधे स्वीकरणीय एवेति नवीनाभिप्रायः । तथा च नीलघटी घट इत्यादौ घटत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकः शाब्दबोधः प्रसिद्धः । तस्य घटत्वाद्युपस्थित्यादिकारणमपि प्रसिद्धन्तस्य घटो घट इत्यादावपि सत्त्वेन तादृशो बोधः स्यादिति भावः । विशेषणतावच्छेदकविधयेत्यादि। अयम्भावः । तस्य बोधस्य यथा घटत्वोपस्थित्यादिः कारणं तथा नीलाद्युपस्थितिरपि कारणम् । कारणकूटस्यैव च कार्योत्पादकत्वेन घटोपस्थितेस्सत्त्वेऽपि नीलोपस्थित्यादेरसत्त्वान्नापत्तिरिति दिक् । नन्विदं न युक्तम् । प्रसिद्धव्यक्तेस्तु नापत्तिस्सम्भवति । तस्या अन्यत्रोत्पत्त्यसम्भवात् । अपि तु प्रसिद्धो यो धर्मस्तदवच्छिन्नकार्यतानिरूपित
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy