SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ प्रथमा ] . जयाऽलङ्कृतः तितात्पर्यज्ञानविशेषादिघटितैव सामग्री घटत्वावच्छिन्नविशेष्यकनीलघटत्वाद्यवच्छिन्नाभेदान्वयबोधप्रयोजिका तदभावादेव घटो घट इत्यादिपु न तादृशशाब्दबोधापत्तिरिति केचित्-तिछ। द्रव्यत्वादौ धर्मितावच्छेदेकतासंसर्गेण प्रसिद्धस्य शुद्धघटत्वाद्यवच्छिन्नप्रकारकाभेदान्वयबोधस्य घटत्वादावापत्तिसंभवात् । न च तत्रापादकाभावः, तात्पर्यज्ञानविशेषादिघटिताया धर्मिताव कारणताश्रयबलात् तद्वविच्निकार्य्यस्यापत्तिर्भवति। तथा च घटत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताशालिशाब्दबुद्धित्वावच्छिन्नं प्रति कारणता नीलोपस्थित्यादेर्व्यभिचारेण न सम्भवति । अपि तु प्रथमान्तघटपदसमभिव्याहृतप्रथमान्तघटपदत्वादिरूपाकाङ्क्षाज्ञानादेरेव तबलात् । घटो घट इत्यादौ तादशधर्मावच्छिन्नकार्यापादनेऽकारणीभूताया नीलाधुपस्थितेविरहस्याकिञ्चित्करत्वादिति चेत्-अत्रोच्यते । सामान्यस्य निर्विशेषस्याभावेन सामान्यधर्मावच्छिन्ने कार्यो जननीये विशेषधावच्छिन्नकार्योत्पादकसामग्र्या अपेक्षितत्वमित्यस्य वक्तव्यतया घटत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यतानिरूपकशाब्दबुद्धित्वरूपसामान्यध विच्छिन्नकार्योत्पत्तौ नीलघटत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिनविशेष्यताशालिशाब्दबुद्धित्वरूपविशेषधर्मावच्छिन्नकार्योत्पादिकाया नीलाद्युपस्थितिघटितसामग्या अपेक्षितत्वेन नीलाद्युपस्थितेरवश्यापेक्षणीयत्वान्नानुफ्पतिः । किञ्च शुद्धघटत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकशाब्दबोधस्याभाव एवापि तु नीलघटत्वाद्यवच्छिन्नप्रकारताकनिरूपितघटत्वावच्छिन्नविशेष्यताक एवेति न शुद्धघटत्वावच्छिन्नप्रकारताकनिरुक्तशाब्दबुद्धित्वावच्छिन्नं प्रति कस्यापि कारणता किन्तु नीलघटत्वाद्यवच्छिन्नप्रकारताकनिरुक्तधर्मावच्छिन्नं प्रत्येव । तथा च घटत्वावच्छिन्नप्रकारताघटितोक्तधर्मावच्छिन्नसत्त्वं नीलघटत्वावच्छिन्न
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy