________________
वह्नित्वावच्छिन्नघटाद्यभावसमनियतत्वेन तदभिन्नतया तत्र घटत्वाद्यवच्छिन्नप्रतियोगिताकत्वघटाद्यभावत्वसत्त्वेऽपि तादृशाभावपरस्य घटत्वेन घटो नास्ति, वह्नित्वेन वह्निर्नास्तीत्यादिवाक्यस्य न प्रामाण्यम् । उक्तस्थले च तृतीयान्ताद्यर्थस्य द्वितीयान्ताद्यर्थेऽवच्छेद्यावच्छेदकभावसम्बन्धेनान्वय इत्यपि कश्चित् ।
ता। विभक्तयर्थे विभक्तयर्थान्वयस्याव्युत्पन्नत्वात् । न च रजतत्वेनेदं ज्ञायते इत्यादौ आख्यातार्थविषयतायां तृतीयार्थप्रकारताया निरूपितत्वसंबन्धेनान्वयान्नोक्तव्युत्पत्तिकल्पनमिति वाच्यम् । तत्रापि रजतत्वादिप्रकारकत्वविशिष्टधात्वर्थ'ज्ञाननिरूपितत्वस्याख्यातार्थे भानस्वीकारेणैवातिप्रसङ्गभङ्गात् । न च तस्मात्पचति'
ययोः परस्परनिरूप्यनिरूपकभावस्तयोरेवावच्छेद्यावच्छेदकभावनियमादिति भावः । 'उक्तस्थल इति । रजतत्वेन शुक्ति जानातीत्यादा वित्यर्थः ।
तृतीयान्ताद्यर्थस्येति । तृतीयान्तार्थप्रकारतायाः स्वनिरूपकत्वसम्बन्धेन ज्ञानेऽन्वयः स्वावच्छेदकत्वसम्बन्धेन द्वितीयार्थविषयतायामित्याशयः ।
३ रजतत्वेनेदमित्यादि । रजतत्वप्रकारतानिरूपितज्ञानीयविशेष्यतावदिदमिति बोधः ।
४ विशिष्टधात्वर्थेति । ननु रजतत्वादिप्रकारकज्ञाननिरूपितत्वस्यैवाख्यातार्थेऽन्वयोऽस्तु किं विशिष्टधात्वर्थेत्यादिनिवेशेनेति चेन्न । इमे शुक्तिरजते इति वाक्यजन्यबोधपरकरजतत्वेन शुक्तिं जानातीतिवाक्यस्योक्तरीत्या प्रामाण्यापत्तिवारणाय तस्यावश्यकत्वात् तादृशप्रकारतानिरूपकत्वविशिष्टज्ञाननिरूपितत्वतादृशप्रकारतानिरूपितविशेष्यतायामेवेति न दोषः ।
"तस्मात् पचतीत्यादि । तद्धेतुका पाकक्रिया तहेतुकं चैत्रनिरूपितस्वत्वमिति बोधः।