SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ द्वितीया ] जयाऽलङ्कृतः २१६ त्वस्य घटत्वेन वह्निर्नास्तीत्यादौ सौंदडमते अभावे घटत्वावच्छिन्नप्रतियोगिताकत्वस्य तृतीयान्ततो बोधः । तृतीयान्तार्थरजतत्वादिप्रकारकत्वद्वितीयान्तार्थशुक्तयादिविषयकत्वयोः विशिष्टवैशिष्ट्यवोधमर्यादयाऽवच्छेद्यावच्छेदकभावभानम् । रजतत्वेन शुक्ति जानातीत्यादौ नियतं केवलमेकत्र द्वयमितिरीत्या तदुभयबोधस्य तत्राव्युत्पन्नत्वात्। अत इमे शुक्तिरजते इत्यादिप्रमापरस्य ताहशवाक्यस्य न प्रामाण्यम् । घटत्वाद्यवच्छिन्न प्रतियोगिताकवह्नयभावादिनिष्ठेन वह्नयादिनिरूपितानुयोगिताविशेषरूपवह्नयाद्यभावत्वेन तदभावनिष्ठघटत्वाद्यवच्छिन्नप्रतियोगिताकत्वस्यावच्छेद्यावच्छेदकभावः स्वीक्रियते । घटत्वेन वह्निर्नास्तीत्यादौ च तद्बोधस्योक्तरीत्यावश्यकत्वमिति घटत्वावच्छिन्नवह्नयाद्यभावस्य १ व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभाववादिनोऽन्यथाख्यातिमतं निराकर्तुरुपाध्यायोपनामकस्य सोन्दल, सुन्दल, सौन्दलादिविविधनामधेयस्य मते इति भावः । विषयकत्वयोरित्यादि । सादृशविषयको परस्परनिरूप्यानरूपकमावस्तादृशविषयतानिरूपाल्चयोरक्च्छेचावच्छेदकभावोऽभ्युपेयते- घटत्वाद्य वच्छिन्नेत्यादि । यद्धर्मावच्छिन्नयन्निष्ठप्रतियोगिता भवति तद्धर्मावच्छिन्नप्रतियोगितानिरूपकत्वतनिरूपितानुयोगितयोरेवावच्छेद्यावच्छेदकभावः। उसकोलकवह्निघटोभयन्नमस्तीक्तिवाक्यजन्यबोबलात्पर्येण घटत्वेन वह्निास्तीति वाक्यत्व प्रामाण्यवारणाय तथाकल्पनस्यावश्यकत्वादिति भावः । "आवश्यकत्वमिति। अन्यथा वह्निघटोभयन्नास्तीत्यादिप्रतीतिविषयस्याप्यभावस्य वह्निनिरूपितानुयोगिकत्वस्य घटत्वावच्छिन्नप्रतियोगिताकत्वस्य च सत्त्वेन तद्बोधतात्पर्येणापि घटत्वेन वह्निर्नास्तीति प्रयोगापत्तिः ।
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy