________________
२१८
व्युत्पत्तिवादः
[ कारके ___ अनुमित्वर्थकधातुयोग विधेयत्वं विधेयित्वं' वा द्वितीयार्थः । तेन वह्नयादिपक्षकानुमितिपरस्य वन्हिमनुमिनोमीत्यादिवाक्यस्य न प्रामाण्यम् । मदिर' वन्हिसाध्यकपर्वतपक्षकानुमितिपरस्य वन्हिमत्त्वेन पर्वतमनुमिनोमीत्यादिवाक्यस्यापि प्रामाण्यमनुमन्यते तदा तादृशधातुयोगे उद्देश्यत्वमुद्देश्यित्वं वा द्वितीयार्थः। तस्य च तृतीयान्तोपस्थाप्यसाध्यविधेयकत्वेन विशिष्टेऽन्वयः। अतो वन्हिमत्त्वेनेत्याद्यसमभिव्याहारेण तत्र पर्वतमनुमिनोमीत्यादयो न प्रयोगाः । विधेयत्वाद्यर्थे तृतीयानुशासनविरहात् + तृतीयान्तेन वह्नयादिविधेयकत्वं कथमुपस्थापनीयमिति न शङ्कयम्। वैशिष्ट्यरूपार्थे तृतीयानुशासनसत्त्वात् विधेयतादेरपि वैशिष्ट्यरूपत्वात् । अत एव रजतत्वेन शुक्तिं जानातीत्यादौ ज्ञाने रजतत्वादिप्रकारक
१ विधेयित्वम्वेति । वृत्त्यनियामकसम्बन्धस्याभावप्रतियोगितानवच्छेदकत्वमभिप्रेत्याह स्वमते-विधेयित्वम्वेत्यादिना।
२ विशिष्टेऽन्वय इति । द्वितीयार्थोद्देश्यित्वप्रकारकानुमितिविशेष्यकबोधे तृतीयान्तपदोपस्थाप्यसाध्यविधेयतानिरूपकत्वप्रकारकानुमितिविशेष्यकबोधजनकसामग्रीकारणमिति भावः । ___ नन्वेवं कार्यकारणभावस्वीकारेऽपि बह्निमत्त्वेन पर्वतमनुमिनोमीति समूहालम्बनवाक्यात् पर्वतनिरूपितद्वितीयार्थोद्देश्यित्वप्रकारकानुमित्यादिविशेष्यकबोधापत्तिनिरुक्तकारणसद्भावादिति चेन्न । द्वितीयार्थोद्देश्यित्वप्रकारकानमितिविशेष्यकबोधे तृतीयान्तार्थसाध्यविधेयतानिरूपकत्वप्रकारकानुमितिविशेष्यकबोधजनकत्वेन तात्पर्यविषयीभूतधातुर्मिकद्वितीयान्तार्थोद्देश्यित्वप्रकारकानुमितिविशेष्यकबोधजनकत्वप्रकारकतात्पर्यज्ञानस्य कारणत्वाभ्युपगमात् ।
३ तृतीयानुशासनसत्त्वादिति । इत्थं भूतलक्षणे इति । * अत एवेति । तृतीयाया वैशिष्टयार्थकत्वादेवेत्यर्थः ।