________________
द्वितीया ] जयाऽलङ्कृतः
२२१ तस्माच्चैत्रस्येत्यादौ विभक्तयर्थे कृतिसंबन्धादौ हेतुविभक्तयर्थान्वयदर्शनानास्त्युक्ताव्युत्पत्तिरिति वाच्यम् । हेतुविभक्तयतिरिक्तविभक्तयर्थस्याविभक्तयर्थेऽनन्वयनियमात् न च रजतत्वेनेदं जानातीत्यादौ तृतीयायाः कारकविभक्तित्वाभावान्न तदर्थस्य क्रियायामन्वयसंभव इत्यगत्या द्वितीयार्थ एव तदन्वय उपगन्तव्य इति वाच्यम् । ___ मणिकारमते तस्माज्जानातीत्यादौ ज्ञानादिरूपधात्वर्थ एव हेतुविभक्तयर्थस्य तस्मात् स्थीयते इत्यादौ च सर्वसम्मत एव धात्वर्थस्थित्यादौ तस्यान्वयेन षष्ठयथसंबन्धस्यापि “गुरुवित्रतपस्वितुर्गतानां प्रतिकुर्वीत भिषक् स्वभेषरित्यादौ धात्वर्थेऽन्वयेन कर्मासमभिव्याहृते रजतत्वेन जानात.त्यादौ धात्वर्थे तृतीयार्थान्वयस्यावश्यकत्वेन कारकविभक्तिभिन्नविभक्त्यर्थस्य क्रियायामनन्वय इत्यनियमात् । एवं घटत्वेन वह्निर्नास्तीत्यादौ प्रथमार्थो नानुयोगित्वम् । प्रथमायाः संख्यातिरिक्तविभक्तथर्थाबोधकत्वनिय-, मात् । अतो नर्थाभावे सबन्ध एवं तत् । तत्र च न तृतीयार्थान्वयसंभवः।
ममतु अनुयोगितासंबन्धेन वह्नयादिविशिष्टाभावे तृतीयान्तार्थघटत्वावच्छिन्नप्रतियोगिताकत्ववैशिष्ट्यभानाद्विशिष्टवैशिष्ट्य
-शाम
'मणिकारमते इति।तन्मते पाश्रयतारूपार्थकत्वस्याख्याते निराकरणात प्राश्रयतायां नान्वयसम्भवः । ।
जानातोति । तन्मते ज्ञानार्थकधातुसमभिब्याहवाख्यातस्य निरर्थकत्वस्पोपपादितत्वात् अन्यत्रान्वयासम्भवादिति भावः ।
अत्र प्रथमार्थस्याभावात विभक्त्यर्थान्वयस्वीकारे पूर्वप्रयोगे निर्वाहसम्भवेऽप्यत्रानिर्वाहादनिच्छतापि मद्रीतेरेवानुसतव्यतया अर्द्धजरतीयः स्यादित्येतदुच्यते--एवमिति ।