SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ HTM/ बोधमर्यादया वह्नयाद्यनुयोगिकत्वस्थलीयस्यानुयोगितया संवद्धवह्नयादेस्तादृशप्रतियोगिताकत्वेनावच्छेद्यावच्छेदकभावभानोपगमेन सामञ्जस्यात् । अनुयोगिताया नार्थतावच्छेदकत्वे तव वह्नयादेः प्रतियोगिनोऽन्वयः । अतस्तत्र तृतीयान्तार्थघटत्वावच्छिन्नप्रतियोगिताया निरूपकत्वेनान्वयं स्वीकृत्यातिप्रसङ्गवारणं सम्यक् प्रतिभाति रङ्गेऽभेदेन रजतारोपस्थले रङ्गं रजतेन जानातीत्यप्रयोगात् । तादात्म्यभिन्नसंवन्धावच्छिन्नप्रकारितैव तृतीयार्थः। तत्र च रङ्ग रजतं जानातीति प्रयोगात्तादात्म्यसम्बन्धावच्छिन्नप्रकारताकत्वं कर्मत्वानुशिष्टद्वितीयादेरेवार्थः। तस्य च तादृशप्रकारवाचिपदसमानविभक्तिकपदोपस्थाप्यविशेष्यताविशिष्टायामेव ज्ञानरूपक्रियायामन्वयः। तेन भेदारोपस्थले रङ्गे रजतत्वं जानातीतिवदभेदारोपस्थले रङ्ग रजतं जानातीति न प्रयोगः । उक्तस्थले च रङ्गरजतायोः समानविभक्तिकपदोपस्थाप्ययोरभेदान्वये साकाङ्क्षत्वेऽपि नायोग्यतया तादृशान्वयः। एवं सति रङ्गरजतादिपदयोः सामानाधिकरण्यानुपपत्तिरिति चेत्-का क्षतिः । न चैवं रजतगनैकत्वबहुत्वाविवक्षायां रङ्गानि रजतं जानातीति प्रयोगस्य स्त्रियं पांसुलान जानातीति प्रयोगस्य च प्रसङ्गः । सामानाधिकरण्यस्यैव समानवचनलिङ्गकत्वनियतत्वादिति वाच्यम् । समानाधिकरणयोरिव यत्पदार्थविशेष्यकत्वविशिष्टेऽभेदसंबन्धावच्छिन्नयत्पदार्थप्रकारकत्वस्यान्वयस्तयोरपि समानलिङ्गवचनत्वनियमात् । ____ यक्षपतिमतानुयायिनस्तु रङ्गं रजतं जानातीत्यादौ सामानाधिकरण्यानुरोधात् रजतादिपदस्य रजताभेदज्ञानविषये लक्षणा । अत्त एन भ्रान्तिज्ञविशेषदर्शिना प्रयुक्तस्य लोहितवह्नि जानातीत्यादिवाक्यस्यापि प्रामाण्यनिर्वाहः। न ह्यसमासस्थल इक लोहितवह्नयाद्योरभेदाविवक्षा ज्ञानांशे लोहितादेः स्वातन्त्र्येणान्बयो वा सम्भवति कर्मधारयस्य साधुतानुपपत्तेः । लोहितपदोत्तरं प्रकारताबोधक
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy