________________
विभक्तेरभावात् । धात्वर्थे साक्षान्नामार्थस्य भेदान्वयेऽव्युत्पत्तेः । द्वन्द्वस्थलवकर्मधारयोत्तरविभक्तेः पूर्वपदप्रकृतिकत्वाभावात् तस्याः पूर्वपदार्थान्वितप्रकारताबोधकत्वायोगात् च च द्वन्द्वसमास एवासौ अल्पाचो वह्निपत्स्य पूर्वनिपातप्रसङ्गात् । समाहारपक्षे पुल्लिङ्गताया इतरेतरपले च एकवचनस्यानुपपत्तेः । एतन्मते शुक्लो वह्निरित्यादिप्रमायां लोहिताभेदारोपविषयवह्निविषयकत्वेऽपि शुक्लो वह्निर्लोहिता जपतिसमूहालम्बनप्रमाया लोहिताभेदावगाहिखविषयवह्निविषयकत्वेऽपि च तद्दशायां लोहितवह्नि लोहितं वह्नि वा जानातीति न प्रयोगः । तादृशपदोपस्थाप्यविषयताया मिपारतन्त्र्येण""द्वितीयर्थिविषयतायामभेदसम्बन्धेन विशेषणताया नियमोपगमात् । अथवा लोहिताभेदविषयतानिरूपितविषयतापन्नस्य वह्नयादेर्शानान्वयिविषयितानिरूपकत्वं भासते। समूहालम्बनादौ च तादशविषयतानापन्नस्यैव विषयितानिरूपकत्वमिति नातिप्रसङ्गः। विपयतापन्नस्य निरूपकत्वमित्यस्य च विषयतावच्छिन्नं निरूपक त्वमित्यर्थः । एतन्न विलक्षणविषयितानिरूपकतावच्छेदकत्वमविष यस्यापि विषयत्वस्योपेयते, स्कदण्डवानिल्यादौ दण्डादिरूपप्रकारांशेऽप्रकारेणापि रक्तत्वादिप्रकारतानिरूपितविशेप्यत्वेन दण्डादिप्रकारताया अवच्छेद्यावच्छेदकभाववदित्याहुः।
न च द्वन्द्वसमास एवेति । वस्तुतो द्वन्द्वप्राप्तिरेव न एकधर्मावच्छिन्ने एकसम्बन्धेनान्वितानागव द्वन्द्वविधानात्प्रकृते प्रकारिताविशेष्यितोभयसम्बन्धेनोभयोरन्वितत्काल
२ अथेति । अभेद सम्बन्धावच्छिन्नलोहितनिष्ठप्रकारतानिरूपितविशेष्यतावच्छिन्ननिरूपकतानि रूपितनिरूप्यतावद्विषयिताशालिज्ञानवानयमिति बोध , एव लोहितवह्नि जानागीतिवाक्याज्जायते इति भावः ।