SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ तम शोमनम् । उक्तरीत्या विनैव लक्षणामुपपत्तौ तस्या न न्याय्यत्वात्। हाथोकस्थले आरोप्यारोपविषयबोधकपदोनान्वितार्थकत्वे कर्मप्रत्ययस्थले लोहितो वन्हिर्जायते इत्यादौ विशेष्यभेदाद्वाक्यभेदापत्तिः । न च लोहिताभेदज्ञानविषयो वह्निरित्येव शाब्दधीरुपगम्यते न तु ज्ञाने प्रकारो लोहितो विशेष्यश्च वह्निरिति समूहालम्बनं, तथा सति शुक्लो वह्निर्लोहिता जपेत्यादावपि तथा प्रयोगप्रसङ्गात् । दर्शितविशिष्टवैशिष्ट्यबोधस्वीकारे लोहितादिप्रकारकत्वविशिष्टनिरूपितविशेष्यतायाः शुक्लवह्नयादौ बाधितत्वेन तादृशप्रयोगापत्तिविरहादिति वाच्यम् । तत्र लोहितादिपदोत्तरप्रकारतार्थकद्वितीयादिविरहेण लोहितादिप्रकारकत्वेन ज्ञानभानासंभवात् । नामार्थधात्वर्थयोः साक्षादन्वयस्याव्युत्पन्नतया प्रकारितायाः संसर्गतया भानासंभवादिति चेत्-न । यथा हि-घटो नीलो भवति, वृक्षो नौका भवति, काष्ठं भस्म भवतीत्यादौ धात्वर्थेऽसाधारणधर्मरूपे भावे व्युत्पत्तिवैचित्र्येण नीलनौकाभस्मादेः साक्षादेवान्वयः, प्रथमाया अन्तराभासमानार्थकत्वाभावात, नौकादिपदस्य स्वारम्भकावयवारब्धार्थलाक्षणिकतया प्रकृतिविकृत्योर्भेदमतेऽपि वृक्षो नौका भवतीत्यादौ योग्यताया उपपत्तिः, स्था धात्वर्थे प्रकृतेऽपि प्रकारितासंबन्धेन लोहितादेः साक्षादन्वयस्यागत्योपगमात् । यथा प्रकृतिविकृतिभावस्थले वृक्षः पञ्च नौका भवतीत्यादौ १ वस्तुतो लोहितवह्नि जानातीतिवाक्यमप्रमाण मतिध्येयमित्यधिक: पाठो हस्तलिखितपुस्तकेऽत्र दृश्यते । शाब्दधीरिति। लोहितनिष्ठाभेदसम्बन्धावच्छिन्न प्रकारतानिरूपकज्ञानीयविषयताश्रयो वह्निरित्येवं रूप इति भावः ।
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy