________________
प्रकृतिभूतवृक्षादेर्विशेष्यतया भावनान्वयित्वात् , तद्गतसंख्याबोधकतया प्रकृतिवाचकपदसमानवचनत्वमाख्यातस्य तथा एको द्वौ ज्ञायते इत्याधुभयार्थाभेदारोपस्थलीयवाक्ये एकादिपदार्थस्यारोपविशेष्यस्याख्यातार्थविशेष्यतयान्वयविशेष्यतया तत्पदसमानवचनत्वमाख्यातन्य । ___ न चैवं 'अमानि तत्तेन निजायशोयुगं द्विकालबद्धाश्चिकुराः शिरः स्थितम्' इत्यत्र कथमारोपविशेष्यवाचकपदविरुद्धवचनत्वममानीतिक्रियापदस्येति वाच्यम्, तत्रायशोद्वयस्य वास्तवत्वं न चिकुरभागद्वयस्य राज्ञा अारोप्यत्वेन कवेरुत्प्रेक्षितत्वात् । आख्यातार्थविशेष्यतान्वयविशेष्यत्वेनायशोयुगस्यैव विवक्षितत्वात्। इच्छार्थकधातुस्थले मुख्यविशेष्यत्वरूपं कर्मत्वं द्वितीयार्थः । अतो वृष्टिसाध्यं सुखं भवत्वित्यादीच्छास्थले सुखमिच्छतीत्यादिवष्टिमिच्छतीत्यादयो न प्रयोगाः। अथ अहं सुखी स्यामित्यादीच्छायाः सुखादिविशेषणक तया तत्र सुखमिच्छतीत्यादिप्रयोगानुपपत्तिरिति चेत्-न । मम सुखं भवत्वित्यादिसुखविशेष्यकेच्छाया एव कदा चित्सुखादि विशिष्टात्मबोधकशब्देन विषयाभिलापात्। स्वकृत्यधीनसिद्धिकत्वरूपस्वकृतिसाध्यत्वप्रकारकपाकविशेष्यकेच्छाया इव पाकं कृत्या साधयानीति पाकसिद्धयनुकूलकृत्यभिन्नव्यापारविशिष्टात्मबोधकशब्देन विषयाभिलापवत् । यदि योद्देश्यसुखादेविशेषणतयाऽपि कचिद्भानमानुभाविकं तदोद्देश्यादिव्यवहारनियामकः कचित्किचिद्विशेषणसाधारणो विषयताविशेषोऽभ्युपेयः । अनुमितौ विशेष्यतया काचित्कभानविषय'साध्यनिष्ठविधेयताख्य
'भानविषयेति पर्वते वह्निरित्यनुमाने हि साध्यस्य वह्नविशेष्यत्वं, वह्निमान् पर्वत इत्यत्र च प्रकारत्वमिति भावः ।