________________
विषयतावत् । स एव च सुखमिच्छतीत्यादौ द्वितीयार्थः । ग्राममिच्छतीत्यादौ ग्रामादिपदं ग्रामस्वत्वादिपरम। अत एव च सिद्धस्य ग्रामादेमुख्यविशेष्यताया उपदर्शितविलक्षणविषयताया वा विरहेऽपि न क्षतिः । ग्रामादेः सिद्धत्वेऽपि स्वस्वत्वाधसिद्धोपरक्तस्य इच्छायां प्राधान्येन क्वचिद्भानं विशिष्टेस्यासिद्धत्वात् । तत्र ग्राममिच्छतीत्यादिप्रयोग इत्यपि बदन्ति ।
42 लोया कविकोपतीत्यादौ द्वितीयाया विशेष्यतापकमत्वार्थकतया कृतिप्रकारकपाकविशेष्यकेच्छा प्रतीयते । सा च पाकं कृत्या साधयानीतीच्छा । अथ वा सनो धात्वर्थविशेष्यकेच्छा वाचित्वात्कृतिविशेष्यकेच्छा चिकीर्षापदार्थः । सा च पाककृतिर्भवत्वितीच्छैव । प्रवर्तिका च सा भवतु मा वेत्यन्यदेतत् । पाकादेश्च कृतिकर्मत्वमेव द्वितीयया प्रत्याय्यते, न विच्छाया विषयत्वरूपं कर्मत्वम् । गृहस्थितीच्छामादाय गृहं तिष्ठासतीत्यादिप्रयोगापत्तेः । युनं चैतत् । सनो धात्वर्थप्रकारकेच्छावाचित्वे ओदनभोजनेच्छा. दशायामोदनं बुभुक्षते इति प्रयोगो न स्यात्। तत्र भोजनस्याप्रकारत्वात् । न च कर्मता सम्बन्धेन भोजनप्रकारिका यदा ओदनविशेष्यिकेच्छा तदैवैतादृशप्रयोगः । सा चेच्छा भोजनधर्मिकेष्ठसाधनताज्ञानाद्भोजनविशिष्टौदनधर्मिकेष्टसाधनताज्ञानाद्वा। अोढ़नस्य सिद्धतादशायामपि विशिष्टधर्मिकेष्टसाधनताज्ञानाद्विशिष्टधर्मिकासिद्धत्वज्ञानसहिताद्विशिष्टेच्छासम्भवात् । पत्र भोजनसिद्धतादशायां भोजनोत्तरकालीनगमनत्वादिप्रकारिको भुक्तौदनजन्यपष्टित्वादिप्रकारिका वा ईच्छी तत्र बुभुक्षत इति प्रयोगस्य न प्रसङ्गः। मुख्यविशेष्यविशेषण'तापन्नकर्मत्वांशे इच्छाप्रकारतीयाँ एवं सनप्र
ति
मुख्यविशेष्यविशेषणेति । मुख्यविशेष्यविशेषणतापन्न कर्मत्वनिष्ठविशेष्यतानिरूपितेच्छाप्रकारतैव सन्प्रकृत्यर्थनिष्ठतया भासत ::ति भावः ।