SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ इत्यादौ विनंपिदार्थाऽभाववान तत्पसमभिव्याहृतद्वितीयाया अभा' वान्वयिप्रतियोगित्वमनुयोगित्वं वार्थः। अभाववतश्चोत्पत्तावाधारत्वेनान्वयः। तथा च दण्डाभावववृत्त्युत्पत्तिकत्वाभाववान् घटो रासभाभावववृत्त्युत्पत्तिको घट इत्याकारको बोधः। यद्यपि निपातार्थे नामार्थस्य साक्षादपि भेदेनान्वयः तथापि सम्भवति सार्थकत्वे 'विभक्तनिरर्थकत्वमनुचितमिति द्वितीयायाः सार्थकत्वमुफेयते। भूतले न घटश्चन्द्र इव मुखमित्यादौ प्रथमायाः प्रतियोगिताद्यर्थकत्वे प्रथमैव न साधुः स्यात् । प्रातिपदिकार्थान्वयिनोऽन्यपदनाभिधानस्थल एव प्रातिपदिकार्थेत्यादिसूत्रेण प्रथमाविधानादिति तत्र प्रतियोगित्वादिः सम्बन्धविधयैव भासत इत्युज्यते। दूण्डं विना न घटोत्पुत्तिरित्यादौ च विनान्ताथें घटोत्पत्त्यधिभावान्वयऽनुयोगिविशेषण दण्डाद्यभावस्य च तदनुयोगितावच्छेदकत्वं भासते।'द्रव्ये न गन्ध 'इत्यप्रयोगात् उपलक्षणीभूतधर्मावच्छिन्ने न नञर्थाभावान्वय इतिव्युत्पत्तेरिति रासभं विना न घटोत्पत्तिरिति न प्रयोगः। अतिप्रसक्ततया रासभाभावस्य घटोत्पत्त्याद्यभावानुयोगितावच्छेदकताविरहात् । अथ वा अभाव एव विनार्थः । दण्डं विना न घट इत्यादौ च विनान्तार्थस्याभावस्य नार्थे घटादयभावे प्रयोज्यतासम्बन्धेनैवान्वयः । अत एवं रासूभ विना न घट इत्यादयो न प्रयोगाः । अत एवं दण्डधिभावति घटादेवृत्तावपि जायते' इत्यस्याध्याहारम् विनैव दण्डं विना न घट' इत्यादौ च विनार्थस्याभावस्य सामानाधिकरण्यसम्बन्धेन घटादावन्वयः। दीधितिकृताप्यविनाभावो व्याप्तिरित्यत्र साध्यं विना साध्याभाववति योऽभाव इति यद्व्याख्यातं PIC.. ' इत्यत्र ‘इति प्रयोगोपपत्तिः । रासँभम्विना घट इ यादौ च विनापदर्थस्याभावस्य सामानाधिकरण्यसम्बन्धेनैव घटादावन्व:' इति हस्तलिखितपुस्तकपाठः।
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy