________________
24
तत्र सप्तम्यन्तेन मतुपा संसर्गविधया भासमानं तदधिकरणनिष्ठत्वमेवोपात्तं न तु विनार्थत्वेनाधिकरणम्। अभावाधिकरणपर्यन्तस्यू विनापदार्थत्वेऽपि सप्तम्याधेयत्वरूपापदार्थविवरणरूपताया विश्यकत्वात्। न च विनापदोत्तरलुप्तसप्तम्यर्थ एवाभाववतीति सप्तम्या विवृत इति वाच्यम्। निपातोत्तरविभक्तनिरर्थकत्वात् । अत एव सर्वत्र निपातोत्तरं साधुत्वार्थं प्रथमैवेति शाब्दिकाः। पृथिव्यामेव गन्ध इत्यादावेवकारप्रकृतिकसप्तम्या यदाधेयत्वबोधकत्वमङ्गीकृतं दीधितिकृद्धिस्तत्रापि तेषां न निर्भूरः। --मान न प्रतियोगितया पृथिव्यन्यवृत्तित्वभानानुराधनव
मलमपगार. कारस्यान्यवृत्तित्वार्थकत्वं गौरवादुपेक्ष्य तत्राधेयत्ववाचकत्वेन क्लूतायाः सप्तम्या कल्पनम् । प्रकृते चाधेयत्वस्य संसर्गतयैवोपपत्तौ विनापदसाकाङ्क्षाधेयत्वार्थकसप्तमीकल्पनं दुष्कल्पनमेव स्विकारस्थले चाभावरूप एवार्थेऽन्यरूपतदर्थान्तरस्याधेयतासम्बन्ध इति न सम्भवति। आधेयतादेस्तद्वत्येव सम्बन्धत्वात् न तु तदभावे । कच तत्राधेयत्वाभावो न प्रतीयते अपि तु तत्सम्बन्धावच्छिन्नप्रतियोगिताकपृथिव्याद्यन्याभाव इत्युपेयम् । तादृशप्रतियोगिताकत्वमेवाभावेऽन्यस्य सम्बन्धोऽस्त्विति वाच्यम् । आधेयतासम्बन्धस्य प्रतियोगिन आधारस्यानुयोगिन्याधेये वृत्त्यनियामकत्वेनाभावप्रतियोगितानवच्छेदकत्वात् । चैत्रः पचतीत्यादौ कृत्यादिसम्बन्धस्यापदार्थ-( त्वेऽपि पाककृतिमानित्यादौ मतुवादिपदेन विवरणात् उक्तस्थले । सामानाधिकरण्यस्य पदेन विवरणमपि न बिरोधमासादयति । विवरणीयार्थस्याप्यन्यलभ्यत्वेऽपदार्थतोपपत्तेरित्यलमसदावेशेन । विना वातं वृक्षः पतित इत्यादौ विनापदार्थस्याभावस्याश्रयतासम्ब-.
_ 'निपातार्थत्वेऽपीति हस्तलिखित पुस्तकपाठः।