________________
प्रथमा ] जयाऽलङ्कृतः
६१ योगिवृत्तित्वोभयसम्बन्धेन भेदविशिष्टं यत्तदन्यत्वमित्येकमात्रवृत्तिधर्म एव विशेषणविभक्तरर्थः । वृत्तिश्च तत्र प्रकृत्यर्थस्य संस
भेदविशिष्टमेव घटत्वमेवोभयवृत्तिः सर्वोऽपि धर्मो भेदविशिष्टस्तदन्यत्वं तद्वयक्तित्वे एव । यथा प्रतियोगिभूतघटव्यक्तिगततद्वयक्तित्वे तादृशभेदप्रतियोगिवत्तित्वेऽपि तद्भदसामानाधिकरण्यन्नास्ति । अनुयोगिघटगततद्वयक्तित्वे च तद्भदसामानाधिकरण्येऽपि प्रतियोगिवृत्तित्वन्नास्तीति भेदविशिष्टभिन्नत्वं बोध्यम् । अथ प्रतियोगिभूतघटगततद्व्यक्तित्वस्याप्यनुयोगिनि कालिकसम्बन्धेन सत्त्वात् । अनुयोगिघटगततद्व्यक्तित्वस्य तेन सम्बन्धेन प्रतियोगिनि सत्त्वात्तद्वयक्तित्वमपि भेदविशिष्टमेव । स्वरूपसम्बन्धावच्छिन्नवृत्तिताया निवेशे समवायेन वृत्तित्ववतां घटत्वादीनामपि भेदविशिष्टान्यत्वापत्त्या भिन्ननीलघटपरनीलपदघटितस्य नीलो घट इत्यादेरपि प्रामाण्यापत्तेः । कालिकान्यसम्बन्धावच्छिन्नवृत्तिताया निवेशे घटगततद्व्यक्तित्वविषयकज्ञानप्रतियोगिको यो घटे भेदस्तद्विशिष्टत्वमेव घटगततद्वयक्तित्वे तस्य स्वरूपसम्बन्धेन अनुयोगिनि घटे विषयितासम्बन्धेन प्रतियोगिनि ज्ञानेऽपि सत्त्वात् । न च तस्य सम्बन्धस्य वृत्तित्वानियामकत्वं ज्ञाने घट इति प्रतीतेरिति भेदविशिष्टान्यत्वाप्रसिद्धिरिति चेत्--अत्रोच्यते । भेदविशिष्टान्यघटकवृत्तित्वस्य स्वरूपसम्बन्धावच्छिन्नस्यैव ग्रहणमिति कालिकसम्बन्धमादाय नाप्रसिद्धिर्नापि घटत्वादेरपि भेदविशिष्टान्यत्वेन विभिन्नघटपरस्य नीलो घट इति वाक्यस्य प्रामाण्यापत्तिः। भेदविशिष्टान्ये विभक्त्यर्थे स्वरूपसम्बन्धावच्छिन्नाधेयत्वस्यैव प्रकृत्यर्थसंसर्गतया भानोपगमात् घटत्वादिरूपभेदविशिष्टान्यस्य विभक्त्यर्थत्वेऽपि निरुक्ताधेयत्वसम्बन्धेन प्रकृत्यर्थान्वयस्य तत्र बाधेन तदादायापत्त्यसम्भवात् । न च घटे यः पटत्वाभावस्तत्र यो घटभेदः स अभावात्मक एव अभावाधिकरणकाभावस्याधिकरणात्मकत्वाभ्युपगमात् । तथा च घटगततद्वयक्तित्वे घटभेदप्रतियोगिवृत्तित्वस्य तद्भे