________________
अभावे प्रतियोगिनः सम्बन्धतया भानात् । अन्यथा विशिष्टवैशिष्ट्यबुद्धित्वानुपपत्तिः। प्रतियोगिविशेषिताभावज्ञानं च विशिष्टवैशिष्ट्यबोधमर्यादान्नातिशेत इति दर्शनात्केवलं विशेष्ये विशेषणमिति रीत्या न कश्चिदभ्युपैतीति चेत्-सत्यम्।
अभेदस्तादात्म्यम् । तच्च स्ववृत्त्यसाधारणो धर्मः। असाधारण्यं च एकमात्रवृत्तित्वम् । तच्च स्वसामानाधिकरण्यस्वप्रति
नीलत्वावच्छिन्नप्रतियोगिताया एव संसर्गत्वं न तु तद्वपक्तित्वाच्छिन्नप्रतियोगिताया इत्यर्थः ।
विशिष्टवैशिष्टयबुद्धित्वानुपपत्तिरिति । विशेषणविशेषणतावच्छेदकोभयप्रतियोगिकसम्बन्धद्वयावगाहिबुद्धित्वं विशिष्टवैशिष्टयबुद्धित्वम् । तथा च नीलो घट इत्यादौ विभक्यर्थभेदे नीलस्य स्वप्रतियोगिकत्वं नीलत्वस्य च स्वावच्छिन्नप्रतियोगिताकत्वं संसर्ग एव स्यादित्यर्थः । अन्यथा घटसत्त्वेऽपि घटाभाववत्ताबुद्धिप्रसङ्गात्। द्वित्वावच्छिन्नप्रतियोगिताकस्यान्यतव्यक्तित्वावच्छिन्नप्रतियोगिताकस्य च घटाभावस्य घटसत्त्वेऽपि स त्वात् । प्रतियोगिविशषिताभावेति । प्रतियोगिना विशेषितो योऽभावस्तज्ज्ञानं घटाभावः घटो नास्तीत्याकारकज्ञानमित्यर्थः । नातिशेत इतीति। निरुक्तविशिष्टवैशिष्टयबुद्धित्वं न जहातीत्यर्थः । केवलं विशेष्ये विशेषणमितीति। अभावे विशेष्ये प्रतियोगितया घटो विशेषणं घटे च समवायेन घटत्वं विशेषणमितिरीत्येसर्थः । प्रतियोगितायां प्रतियोगिविशेषणधर्मावच्छिन्नत्वं विहायति बावत् । ___एकमात्रवृत्तित्वमिति । तच्चैकवृत्तित्वे सति एकेतरावृत्तित्वरूपमिति यथाश्रुतन्तु न युक्तम् । एकत्वस्य केवलान्वयित्वेन एकेतरत्वस्याप्रसिद्धया तस्याप्रसिद्धत्वात् । स्वसामानाधिकरण्येति । स्वं भेदः यथा घटे योऽन्यघटव्यक्तेर्भेदः स स्वं तत्सामानाधिकरण्यं तत्प्रतियोगिवृत्ति वञ्च घटत्वे इति