SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ । तत्तद्व्यक्तित्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धन नीलत्वादिना तत्तद्व्यक्तीनामन्वयः। तादृशभेदानामपि वत्तव्यक्तिभेदत्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेनाभावेऽन्वय उपेयते । तावतैव तत्तद्व्यक्तित्वावच्छिन्नाभेदलाभ इति न किंचिदनुपपन्नमिति वाच्यम् । विशेषरतावच्छेदकावच्छिन्नाया एव प्रतियोगिताया घटिततात्पर्य्यज्ञाने तज ज्ञानस्य हेतुत्वेन तस्यानुपस्थितौ तात्पर्य्यज्ञानासम्भवेन शाब्दबोधानुपपत्तिरेवेति वाच्यम् । न च नीलो घट इति बोधनेच्छयोच्चरितमिदं वाक्यमित्याका रकस्य तात्पर्य्यज्ञानस्य संसर्गतयैव संसर्गावगाहिनः कारणत्वमस्तु तथा चानुपस्थितस्यापि तद्वयक्तित्वस्य संसर्गघटकतया भाने न बाधकमिति व च्यम् । अपूर्ववाक्यार्थस्थले शाब्दबोधात् प्राक् तादृशवाक्यार्थाप्रसिद्धेस्तात्पर्यग्रहे ज्ञानविशेषणतया वाक्यार्थस्य भानासम्भवादिति वाच्यम् । स्वनिरूपित्तसांसर्गिकविषयतानिरूपितघटादिनिष्टविषयताकत्वसम्बन्धेन नीलनिष्ठप्रकारताविशिष्टज्ञानजनकत्वेनोच्चरितमित्याकारकतात्पर्यज्ञानस्थ वारणत्वेनापूर्ववाक्यार्थस्थलेऽपि तादृशज्ञानसम्भवेन तद्वयक्तित्वोपस्थितेरन क्षणादिति ध्येयम् । न च विभक्त्यर्थेऽपि भेद इति । अयं भावः । अभेदस्य विभक्त्यर्थत्वेऽपि दोषाभावः । तथा हि भेदोऽभावश्च विशकलित एव विभक्त्यर्थोऽस्तु नीलादेश्च तद्वयक्तित्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन भेदेऽन्वयः । भेदस्य च तद्व्यक्तिभेदत्वावच्छिः प्रतियोगिताकत्वसम्बन्धेनाभावेऽन्वयः । तथा च तद्वयवि तत्वावच्छिन्नप्रतियोगिताकभेदत्वावच्छिन्न प्रतियोगिताकाभावो लभ्यत इति न पूर्वोक्तदोषावसरः । तद्वक्तित्वस्य संसर्गघटक़तयैव भानेनानुपस्थितत्वेऽपि क्षत्यभावात् । विशेषणतावच्छेकावच्छिन्नाया इति । प्रतियोगिविशेषणतया भा मानधविच्छिन्न प्रतियोगिताया एव प्रतियोगिनोऽभावे संसर्गतया भानं भवतीत्यर्थः । तथा च नीलत्वेन भासमाननीलादेर्भेदे
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy