________________
५८ व्युत्पत्तिवादः
[ कारके वत्वेन तत्तद्व्यक्तिभेदप्रतियोगिताकाभावत्वेन वेत्यन्यदेतत्। न चैवं विशेषणविभक्तेरभेदार्थकत्वमतेऽपि तत्तद्व्यक्तित्वावच्छिन्नाभेद एव विभक्त्यर्थो वक्तव्य इति वाच्यम् । तथा? सत्यपूर्वव्यक्तिनिष्ठतत्तद्व्यक्तित्वस्य कथंचिदपि भानासम्भवेन तदवच्छिन्नभेदाभावे शक्तिग्रहासम्भवनापूर्वव्यक्तीनामभेदान्वयबोधानुपपनेः । संसगॅज्ञानस्य विशिष्टबुद्धावहेतुत्वेनानुपस्थितस्यापि संसर्गतया भान सम्भवेन संसर्गतामतेऽनुपपत्त्यभावात् । न च विभक्त्यर्थेऽपि भेदे
अतिप्रसक्तधर्मस्यापि विषयतात्मकसंसर्गताया अवच्छेदक त्वात् । अन्यदेतदिति। अतिप्रसक्तेन भेदप्रतियोगिकाभावत्वेन अनतिप्रसक्तेन तद्वयक्तित्वावच्छिन्नप्रतियोगिकाभावत्वेन वा अस्तु संसर्गता परन्तु सा प्रदर्शितविशेषाभावनिष्ठवेति कस्मिन्नपि पक्षे दोषाभावेन यथेच्छसि तथा स्त्विति भावः । तथा सतीति । तस्य विभक्त्यर्थत्वे सतीत्यर्थः।।
अपूर्वव्यक्तिनिष्ठेति । तद्वयक्तित्वभेदेन तद्घटित धर्मस्यापि भिन्नत्वेन तत्तत्सकलधर्मावच्छिन्ने विभक्तेः शक्तिस्वीका: श्यामः पुत्रो भवितेत्यादौ भाविपुत्रगततद्वयक्तित्वघटितधर्मे विभक्तेर्व्यवहाराभावेन तद्धविच्छिन्ने विभक्तिशक्तेर्ग्रहाभावेन बोधानापत्तेरिति भावः । न च संसर्गतयाऽप्यनुपस्थितस्य तस्य कथं भानमत एव संसर्गेऽपि मीमांसकः शक्तिः स्वीक्रियत इति वाच्यम् । मोमांसकमतं निराकृत्यानुपस्थितस्यापि पदार्थद्वयसंसर्गस्य संसर्गमर्यादया भानस्य नैयायिकर्व्यवस्थापितत्वात् । ___संसर्गतामतेऽनुपपत्त्यभावादिति । न च शाब्दबोधे संसर्गमर्यादया अनुपस्थितस्य तस्य भानेऽपि नीलो घट इति वाक्यं तद्वयक्तित्वावच्छिन्नप्रतियोगिताकभेदाभावसम्बन्धावच्छिन्ननीलनिष्ठप्रकारताकबोधेच्छयोच्चरितमित्याकारकतात्पर्य्यज्ञानस्य नीलो घट इति वाक्यजन्यशाब्बोधे कारणत्वं वक्तव्यम् । तात्पर्य्यज्ञाने च अवच्छिन्नत्वांशे प्रकारतयैव तस्य भानेन तद्