________________
नीलो घट इत्यादौ स्ववृत्तिनीलत्वादेंः संसर्गतास्वीकारे उक्तस्थले प्रामाण्यापत्तेर्दुर्वारत्वादिति वाच्यम् । स्ववृत्तिनीलत्वादेः स्वस्मिन्नेव सम्बन्धतोपगमेन पटादिवृत्तिनीलत्वादेर्घटादौ पटादिसम्बन्धताविरहेण तादृशातिप्रसङ्गाभावात् ।
वस्तुतस्तु तत्तद्व्यक्तित्वावच्छिन्नभेदाभाव एव नीलत्वादिप्रकारेण भासमानानां तत्तव्यक्तीनां स्वस्मिन् सम्बन्धतया भासते इति न काप्यनुपपत्तिः। सम्बन्धता च तस्य भेदप्रतियोगिताकाभा
मतेऽप्यनिस्तार इति । तन्मतेऽपि प्रामाण्यापत्तिरूपदोषानुद्धार एवेत्यर्थः । तदेवोपपादयति-नीलो घट इत्यादिना। उक्तस्थल इति । नीलपटपरनीलपदघटितनीलो घट इत्यादावित्यर्थः। संसर्गतामतेऽपि नीलभेदाभावरूपनीलत्वस्यैव संसर्गता नीलत्वस्य च नीलपट इव नीलघटेऽपि सत्त्वादुक्तदोषस्तदवस्थ एवेति भावः। स्ववृत्तिनीलत्वादेः स्वस्मिन्नेव सम्बन्धतोपगमेनेति । उक्तस्थले च पटवृत्तित्वविशिष्टनीलत्वमेव संसर्गः । तच्च पटे एव न घटे इति नोक्तदोष इति भावः। तत्तद्वयक्तित्वावच्छिन्नभेदाभाव एवेति। तथा च नीलपटपरनीलपदघटितस्य नीलो घट इति वाक्यस्य न प्रामाण्यापत्तिः। पटगततद्वयक्तित्वावच्छिन्नप्रतियोगिताकभेदस्यैव घटे सत्त्वेन तदभावरूपसम्बन्धस्य तत्राभावात् । भेदप्रतियोगिकाभावत्वेनेति । ननु भेदत्वावच्छिन्नप्रतियोगिताकाभावत्वेन न संसर्गता तद्धर्मस्याप्रसिद्धत्वात् । भेदनिष्ठप्रतियोगिताकाभावत्वस्य प्रसिद्धत्वेऽपि तस्य तद्वयक्तिभेदघटोभयाभावेऽपि सत्त्वेन तस्यापि संसर्गत्वापत्तौ तस्य चोभयाभावस्य घटेऽपि सत्त्वेनोक्तवाक्यस्य प्रामाण्यं दुर्वारमेवेति तद्वयक्तिभेदत्वावच्छिन्नप्रतियोगिताकत्वेनैव संसर्गताया वक्तव्यतया कथमत्रांशे औदासिन्यमिति चेत्--न । भेदप्रतियोगिकाभावत्वेन सामान्यरूपेणापि तद्वयक्तित्वावच्छिन्नप्रतियोगिताकभेदत्वावच्छिन्नप्रतियोगिताकाभावस्यैवोभयाभावभिन्नस्य संसर्गत्वोपगमात् ।